________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा. १० प्रा० प्रा. २२ सू. १
नक्षत्रस्वरूपनिरूपणम् ४२३
कम्भेण तथा त्रयोलक्षाः, षोडशसहस्त्राणि सप्तविंशत्यधिकं शतद्वयंच योजनम् त्रयः क्रोशाः, अष्टाविंशत्यधिकशतधनूंषि, सार्धत्रयोदशाङ्गुलानि किञ्चिद्विशेषाधिकानि, एतावत्परिमितः परिक्खेवेणं' परिक्षेपेण परिधिना 'पण्णत्तं' प्रज्ञप्तः कथितः । 'ता' तावत् तादृशे 'जंबुद्दीवेणं दीवे' जम्बूद्वीपे खलु द्वीपे 'दो चंदा' द्वौचन्द्रौ 'पभासिंसु' प्रभासतां वा भूतकाले, 'पभासेंतिवा' प्रभासेते वा वर्त्तमानकाले, 'पभासिस्संति वा' प्रभासिष्येते वाऽनागतकाले, अतीत वर्त्तमानानागतरूपे कालत्रयेऽपि प्रभासमानौ वर्त्तते इति भावः । एवं 'दो सूरिया' द्वौ सूर्यै 'तविंसु वा ' अतपताम् 'तवेंतिवा' तपतः तविस्संतिवा' तपिष्यतः, द्वौ सूर्यावपि जम्बूद्वीपे कालत्रयेऽपि तपन्तौ वर्त्तते इति भावः । तथा षट्पञ्चाशत् नक्षत्राणि अष्टाविंशते नक्षत्राणां प्रत्येकं द्विर्द्विर्भावेन षट् पच्चाशत्संख्यकानि नक्षत्राणि 'जोयं' योगं चन्द्रसूर्यैः सह युतिं 'जोइस्संतिवा', योक्ष्यन्ति वा, एतानि नक्षत्राण्यपि कालत्रये चन्द्रसूर्यैः सह योगं युञ्जन्ति इति भावः । तान्येव दर्शयति'तं जहा ' इत्यादि, तं जहा ' तद्यथा तानि यथा - - 'दो अभिई' द्वौ अभिजितौ, इत्यत आरभ्य द्वे उत्तराषाढे, इति पर्यन्तानि द्विर्द्विर्भावेन षट् पञ्चाशन्नक्षत्राणि मूलसूत्रादेव विज्ञेयानीति । अथ नक्षत्राणां चन्द्रेण सह योगपरिमाणं प्रतिपादयन्नाह — 'ता एएसिणं' इत्यादि । 'ता' तावत् 'एएसिणं' एतेषां खलु 'छप्पण्णाए णक्खत्ताणं' षट् पञ्चाशतो नक्षत्राणां 'अस्थि - क्खत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेणं' यानि खलु 'णव मुहुत्ते' नवमुहूर्त्तान्, 'सत्तावीसं च सत्तद्विभागे मुहुत्तस्स' एकस्य च मुहूर्त्तस्य सप्तविंशतिं सप्तषष्ठिभागान् यावत् 'चंदेण सद्धिं जोगं जोएंति' चन्द्रेण सार्धं योगं युञ्जति । 'अत्थ नक्त्वत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेणं' यानि खलु ‘पण्णरसमुहुत्ते' पञ्चदशमुहूर्त्तान् यावत् 'चंदेश सद्धिं जोयं जोएंति' चन्द्रेण सार्धं योगं युञ्जन्ति । 'अत्थि नक्खत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेणं' यानि खलु 'तीस मुहुत्ते ' त्रिंशन्मुहूर्त्तान् यावत् चंदेण सद्धिं जोयं जोएंति' चन्द्रेण सार्धं योगं युञ्जन्ति । ' णक्खत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेग' यानि खलु 'पणयालीसं मुहुत्त' पञ्चचत्वारिंशन्मुहूर्तान् यावत् 'चंदे सद्धिं जोयं जोएंति' चन्द्रेण सार्धं योगं युञ्जन्ति पूर्वं भगवता सामान्येन नक्षत्र योगः प्रोक्तः, साम्प्रतं एतानेव चतुरो विषयान् गौतमः पृथक् पृथक्त्वेन पृच्छति - 'ता एएसि णं' इत्यादि, व्याख्या स्पष्टा ।
अथ भगवान् तानेव विषयान् पृथक् पृथग् रूपेण नामनिर्देशपूर्वकं स्पष्टयति- 'ता एएसि णं' इत्यादि, व्याख्या सुगमा अथ षट् पञ्चाशतो नक्षत्राणां मध्ये यानि यानि नक्षत्राणि सूर्येण सहयोगं युञ्जन्ति तेषां संख्या नामानि च पृथक् पृथक् प्रदर्शयति- 'ता एएसिणं' इत्यादि, व्याख्या पाठ सिद्धा । एषां विशेषव्याख्या पूर्वमस्यैव दशमस्य प्राभृतस्य द्वितीये प्राभृतप्राभृते कृतेति तत्र विलोकनीया । सूत्र ॥ १॥