SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ६२ चन्द्रातिप्रकाशिका टीका प्रा.१० प्रा०प्रा.२० सू. प्रमाणसंवत्सरनिरूपणम् ४११ (४५-१४ ) पूर्वोक्तरूपा गताः, शेषस्तिष्ठत्येको भागः, एकस्य भागस्य च सत्काः षोडशत्रिंशद्भागाः-( १-१६ )। अस्य त्रयोविंशतिषिष्टिभागाः ( २३ ) कथं भवन्तीत्याह-अस्यैकस्य भागस्य, षोडशानां त्रिंशद्भागानां च सर्वे षट् चत्वारिंशत् त्रिंशद्भागा जाताः, एते च किल एकस्य मुहर्तस्य चतुर्विशत्युत्तरशतभागसम्बन्धिनः सन्ति, ततः षट्चत्वारिंशतः ( ४६ ), चतुर्वि शत्युत्तरशतस्य ( १२४ ) च द्विकेनापवर्तना क्रियते, लब्धा एकस्य मुहूर्तस्य त्रयोविंशति षिष्टिभागाः (२२)। तदेव मेकस्मिन् युगेऽभिवर्द्धि तसंवत्सरमासाः-सप्तपञ्चाशन्मासाः सप्ताहोरात्राः, एकादश मुहूर्ताः, एकस्य च मुहूर्तस्य त्रयोविंशतिषिष्टिभागाः ( मा० अहो० मु० भागा) एता (५७-७- ११ २३) एताव परिमिता भवन्तीतिसिद्धम् । उक्तं चान्यत्रापि ---- "तत्थ पडिमिज्जमाणे, पंचहि माणेहिं पुव्वगणिएहिं । मासेहि विभज्जंता, जइ मासा होति तेवोच्छ ॥१॥ अत्र 'तत्थ' इति तत्र ‘पचहिं माणेहि' इति पञ्चभिर्मानैः-मान संवत्सरैः प्रमाण संवत्सरैरादित्यचन्द्रादिभिरित्यर्थः, 'पुव्वगणिएहिं' पूर्वगणितैः-प्राक् प्रतिसंख्यातस्वरूपै 'पडिमिज्जमाणे' प्रतिमीयमाने-प्रतिगण्यमाने 'मासेहि' मासैः-सूर्यादिमासैः । शेषं सुगममिति ॥१॥ उक्तञ्च-युगसम्बन्धि पञ्चसंवत्सरमासविषये--- "आइच्चेण उ सट्ठी, मासा उउणो उ होंति एगट्ठी । चंदेण उ बा-वट्ठी, सत्तट्ठी होति नक्खत्ते ॥ १॥ सत्तावणं मासा सत्तय राइंदियाई अभिवड्ढे । इक्कारस य मुहुत्ता बिसट्ठि भागा य तेबीसं ॥ २ ॥ छाया-आदित्येन तु ( विभज्यमानाः ) षष्टिर्मासाः ६० ( युगे ) ऋतोस्तु ( मासाः ) भवन्ति एकषष्टिः । ६१। चन्द्रेण तु (विभज्यमाना मासाः) द्वाषष्टिः ६२ सप्तषष्टिर्भवन्ति नक्षत्रे ॥१॥ सप्तपञ्चाशद् मासाः ५७ सप्त च रात्रिन्दिवानि, अभिवर्द्धिते । एकादश च मूहूर्ताः ११ द्विषष्टिभागाश्च त्रयोविंशतिः (२२ ॥२॥ इति सू० ४॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy