SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४१० चन्द्रप्राप्तिसूत्रे एको लक्षः, द्वाविंशतिः सहस्राणि, दशोत्तराणि षट् शतानि च (१२२६१०)। एतेषां त्रिंशदधिकैरष्टादशशतनक्षत्रमाससम्बन्धि सप्तषष्टिभागरूपै भागो हरणीयः, हते च भागे लब्धाः सप्तषष्टिमासाः (६७) एवमेकस्मिन् युगे नक्षत्रसंवत्सरस्य सप्तषष्टिर्मासा भवन्तीति सिद्धम् ४ । तथा यदि अभिवर्द्धितसंवत्सरमासैर्युगं विभज्यते-तत्रैकस्मिन् युगेऽभिवर्द्धितमासाः सप्तपञ्चाशत् (५०) सप्ताहोरात्राः, एकादशमुहूर्ताः, एकस्य च मुहूर्तस्य त्रयोविंशति षिष्टिभागाः ( मा. अहो. मु. भागाः ) इत्येतदभिवर्धितमासप्रमाणं भवति । कथमेतदवसीयते ? इत्याह५७- ७-११-२२ ) अभिवर्द्धितमासस्य परिमाणम् एकत्रिंशदहोरात्राः, एकस्य चाहोरात्राः, ६२ एकस्य चाहोरात्रस्य एकविंशत्युत्तरशतं चतुर्विशत्युत्तरशतभागाः (३१-१२. ) तत्र एकत्रिंशदहो रात्राश्चतुविंशत्युत्तरशतभागकरणार्थ चतुर्वि शत्युत्तरशतेन गुण्यन्ते, जातानि चतुश्चत्वारिंशदधिकानि अष्टत्रिंशच्छतानि (३८४४) तत उपरितनमेकविंशत्युत्तरं शतमत्र प्रक्षिप्यते, जातानि-पञ्चषष्ट्यधिकानि एकोनचत्वारिंशच्छतानि(३९६५ )। ये च पूर्वोक्तास्त्रिंशदधिकाष्टादशशतसंख्यका युगस्याहोरात्राः (१८३०) ते चतुर्विशत्युत्तरेण शतेन गुण्यन्ते, जातो राशिः-डे लक्षे षविंशतिः सहस्राणि, नवशतानि, विंशत्यधिकानि च (२२६९२०) इत्येतत्परिमितः । तत एषामेकोन चत्वारिंशच्छतैः पञ्चषष्टयधिकैरभिवर्द्धितमाससम्बन्धि चतुर्विशत्यधिकशतभागरूपै भगो हियते लब्धाः सप्तपञ्चाशन्मासाः तिष्ठन्ति शेषाणि पञ्चदशोतराणि नवशतानि ( ९१५ ) तेषामहोरात्रानयनाथ चतुर्विंशत्यधिकशतेन भागो हियते, लब्धाः सप्ताहोरात्राः, तिष्ठन्ति शेषाः सप्तचत्वारिंशत् चतुर्विशत्युत्तरशतभागाः। तत्र चतुर्भिर्भागः, एकस्य च भागस्य चतुर्भिस्त्रिंशद्भागः ( ४--) एको मुहूर्तो भवते, तथाहि-एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ता भवन्ति, एकस्मिन्नहोरात्रे च चतुर्वि शत्युत्तरमेकं शतं (१२४) भागानां कल्प्यते, ततस्तस्य चतुर्विशत्युत्तरशतस्य त्रिंशता भागो हियते, लब्धाश्चत्वारो भागाः, शेषा एकस्य च भागस्य-सम्बन्धिनश्चत्वारस्त्रिंशद् भागाः (४-- ) एतद् एकस्य मुहूर्तस्य परिमाणं जातम् । ततः पञ्चचत्वारिंशद्भागः, एकस्य भागस्य सत्कैश्चतुदशभिस्त्रिशद्भागः ( ४५-११ )एकादशमुहूर्त्ता लब्धाः कथमित्याह-पूर्व सप्तरात्रिन्दिवलाभान न्तरं स्थिताः सप्तचत्वारिंशत् चतुर्विं शत्युत्तरशत भागाः । (७एतेभ्य एकादशमुहूर्ताः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy