________________
wwwwwwwwwwwwwwwwwwwwwwwwwwwm
दर
चन्द्राप्ति प्रकाशिका टोका प्रा. १० प्रा. प्रा. २० सू. ४ प्रमाणसंवत्सरनिरूपणम् ४०९ विंशति द्वपिष्टि भागाः (७६७२६), तदेवं चन्द्रसंवत्सत्रयस्याऽहोरात्राणाम्-(१०६२२६) अभिवर्द्धितसंवत्सरद्वयस्य च अहोरात्राणां (७६७२६) च संमीलने सर्वाहोरात्राणां त्रिंशदधिकानि अष्टादशशतानि (१८३०) भवन्ति, सूर्यमासश्च पूर्वोक्तरीत्या सार्धत्रिंशदहोरात्रप्रमाणः (३०॥) इति तेन भागे हते लभ्यते च स्पष्टमेव षष्टि (६०)। एवं युगमध्ये सूर्यमासा षष्टि रिति सिद्धम् । ___अथ युगं सावनमासैविभज्यते, तथाहि सावन (कर्म) संवत्सरस्य तु एकस्मिन् युगे एकषष्टिर्मासाः ६१ भवन्ति । कथमित्याह-एकस्मिन् युगे त्रयश्चन्द्रसंवत्सराः, द्वौ चाभिवर्धितसंवत्सरौ इति द्वयाहोरात्रमीलने त्रिंशदधिकान्यष्टादशाहोरात्रशतानि (१८३०) भवन्तीति पूर्वमुक्तमेव ततः सावनमासस्य त्रिंशदिनमानत्वान् पूर्वोक्तो (१८३०) राशि स्त्रिंशता भज्यते इते च भागे लब्धा एकषष्टि रिति सावनसंवत्सरस्यैकस्मिन् युगे एकषष्टिर्मासा भवन्तीति सिद्धम् २ ।
अथ युगं चन्द्रमासैविभज्यते-तत्र युगे चन्द्रमासा द्विषष्टि भवन्ति, कथमवसीयते ? इति चेदाह- चन्द्रमासपरिमाणमेकोनत्रिंशदहोरात्राः, एकस्याहोरात्रस्य च द्वात्रिंशद् द्वाषष्टिभागाः २९३२) ततः प्रथममेकोनत्रिंशदहोरात्रा द्वाषष्टिभागकरणार्थ द्वाषष्टया गुण्यन्ते जातानि अष्टानवत्यधिकानि सप्तदशशतानि (१७९८), ततो ये उपरितना द्वात्रिंशद् द्वाषष्टि भागास्तेऽत्र प्रक्षिप्यन्ते, जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०)। ततो येऽपि च पूर्वप्रदर्शिता युग गताश्चन्द्रसंवत्सराभिवर्द्धितसंवत्सराहोरात्रा अष्टादशशतानि त्रिंशदधिकानि (१८३०), तेऽपि द्वाषष्टया गुण्यन्ते, जातास्ते–एको लक्षः, त्रयोदशसहस्त्राणि, चत्वारिशतानि षष्टयाधिकानि (११३४६०) । एतेषां त्रिंशद्धिकाष्टादशतैः (१८३०) चन्द्रमाससम्बन्धिद्वाषष्टि भागरूपैर्भागो हियते लब्धा द्वाषष्टिश्चन्द्रमासा (६२) इत्येकस्मिन् युगे चन्द्रसंवत्सरस्य द्वाषष्टिमासा भवन्तीति सिद्धम् ३॥
अथ तदेव युगं नक्षत्रमासैः परिगण्यते-तत्रैकस्मिन् युगे नक्षत्रमासाः सप्तषष्टिर्भवन्ति । कथमिति प्रदाते--नक्षत्रमासपरिमाणं सप्तविंशतिरहोरात्राः, एकस्य चाहोरात्रस्य एकविंशतिः सप्तपष्टिभागाः, (२७२१) । तत्र प्रथमं सप्तविंशतिरहोरात्राः सप्तषष्टिभागकरणार्थ सप्तषष्ट्या गुण्यन्ते जातानि नवोत्तराण्यष्टादशशतानि (१८०९) ततो ये उपरितना एकविंशतिः सप्तषष्टि भागास्तेऽत्र प्रक्षिप्यन्ते, प्रक्षिप्ते च जातानि त्रिंशदधिकाष्टादशशतानि (१८३०) युगस्यापि ये त्रिंशदधिकानि अष्टादशाहोरात्रशतानि (१८३०) तान्यपि सप्तषष्टया गुण्यन्ते जातो राशि:---