SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे पूर्वोक्त पञ्चसंवत्सरगतमासाहोरात्रपरिमाणप्रतिपादिका वृद्धसम्प्रदायोक्तास्तिस्रो गाथा अत्र प्रदर्श्यन्ते, तथाहि "अइच्चो खलु मासो, तीसं अद्ध च साबणो तीसं । चंदो एगुणतीसं बिसद्विभागा य बत्तीसं ॥१॥ नक्खत्तो खलु मासो, सत्तावीसं भवे अहोरत्ता। अंसा य एक्कवीसा, सत्तट्टिकरण छेएण ॥२॥ अभिवइढिओ य मासो, एक्कतीसं भवे अहोरत्ता । भागसय मेक्कवीसं, चउवीससएण छेएण ॥३॥ छाया-आदित्यः खलु मासः, त्रिंशद् अर्ध च (अहोरात्राः) सावनस्त्रिंशत् । चान्द्र एकोनत्रिंशत् द्वाषष्टिभागाश्च द्वात्रिंशत् ॥१॥ नाक्षत्रः खलु मासः, सप्तविंशतिर्भवेद् अहोरात्राः । अंशाश्च एकविंशतिः सप्तषष्टिकृतेन छेदेन ॥२॥ अभिवर्धितश्च मासः, एकत्रिंशद् भवेद् अहोरात्राः । भागशतमेकविंशतिः चतुर्विंशतिशतेन छेदेन ॥३॥ इति । एतैरेव पञ्चभिः संवत्सरैरेकं प्रागुक्तस्वरूपं युगं भवति, अथैतत् पश्चसंवत्सरात्मकं युगं मासानधिकृत्य प्रमीयते, तत्र युगप्रागुक्तस्वरूपं यदि सूर्यमासैविभज्यते तदा षष्टि सूर्यमासात्मकं युगं भवति, तथाहि-सूर्यमासे सार्धास्त्रिंशद् अहोरात्रा भवन्ति, ते चैकस्मिन् युगे त्रिंशदधिकाष्टादशशतसंख्यकाः (१८३०) भवन्ति । कथमेतद् ज्ञायते ? इति चेदुच्यतेअन्न युगे त्रयश्च संवत्सराः, द्वौचाभिवतिसंवत्सरौ, एवं पञ्च संवत्सरा भवन्ति । एकैक स्मिंश्च चन्द्रसंवत्सरे चतुष्पञ्चाशदधिकानि त्रोणि शतानि (३५४) अहोरात्राणां भवन्ति, तदुपरि एकस्य चाहोरात्रस्य द्वादश द्वाषष्टिभागाः (३५४--) भवन्ति, तत एष राशिः अकस्मिन् युगे चन्द्रसंवत्सराणां त्रिकत्वात् त्रिभिर्गुण्यते, जातानि द्वाषष्टयाधिकानि दशशतानि अहोरात्राणाम्, एकस्य चाहोरात्रस्य षट्त्रिंशद् द्वाषष्टिभागाः (१०६२२९), तथा - अभिवर्द्धित संवत्सरौ चात्र द्वौ, एकैकस्मिन् अभिवर्द्धितसंवत्सरे चाहोरात्राणां त्र्यशीत्यधिकानि त्रीणि शतानि, चतुश्चत्वारिंशच्च द्वाषष्टि भागा एकस्याहोरात्रस्य (३८३-) ततोऽभिवर्धितसंवत्सरावत्र द्वाविति एष ६२ राशि द्वाभ्यां गुण्यते जातानि सप्तषष्ट्यधिकानि सप्तशतान्यहोत्राणाम्, एकस्य चाहोरात्रस्य षड़
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy