SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१० प्रा० प्रा.२० सू. ४ प्रमाणसंवत्सरनिरूपणम् ४०७ ६७ रात्रिन्दिवस्य एकपञ्चाशत् सप्तषष्टि भागा (३२७५९) तत्र सप्तविंशत्यधिकानां त्रयाणां शतानां द्वादशभिर्भागे हते लब्धाः सप्तविंशतिरहोरात्राः तिष्ठन्ति शेषास्त्रयः, एते च सप्तषष्टि भागानयनार्थ सप्तषष्टया गुण्यन्ते, जाते एकोत्तरे द्वे शते (२०१) एषु च ये उपरितना एकपञ्चाशत् सप्तषष्टि भागास्ते प्रक्षिप्यन्ते, जाते द्विपञ्चाशदधिके द्वे शते (२५२) एषां द्वादशभिर्भागे हूते लब्धा एक विंशतिः सप्तषष्टि भागा (२७२१) एतावत्परिमितो नक्षत्रमासो भवति । अथ पञ्चमस्याभिवर्द्धितसंवत्सरस्य परिमाणं त्र्यशीत्यधिकानि त्रीणि शतानि रात्रिन्दिवानाम्, एकस्य च रात्रिन्दिवस्य चतुश्चत्वारिंशद् द्वाषष्टिभागाः (३८३ ११) एतावत्परिमाणोऽभिर्द्धितसंवत्सरः । तत्र त्र्यशीत्यधिकानां त्रयाणां शतानां' द्वादशभिर्भागो हरणीयः हृते च भागे लब्धा एकत्रिंशद् अहोरात्राः, तिष्ठिन्ति शेषा एकादशाहोरात्राः, ते च चतुर्विशत्युत्तरशतभागकरणार्थ चतुर्विशत्युत्तरशतेन (१२४) गुण्यन्ते जातानि चतुष्चष्टयधिकानि त्रयोदशशतानि (१३६४), ततो ये चोपरितनाश्चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि चतुर्विशत्युत्तरशतभागकरणाथै द्वाभ्यां गुण्यन्ते, जाताऽष्टाशीतिः इयमनन्तरराशौ प्रक्षिप्यते, जातानि द्विपञ्चाशदधिकानि चतुर्दश शतानि (१४५२), एषां द्वादशभिर्भागे हृते लब्धमेकविंशत्युत्तरंशतम् (१२१) इति एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागाः (३१- १२१) एतावत्परिमितोऽभिवर्द्धितमासो भवति । आदित्यादि मासाहोरात्र कोष्ठकम् मास नाम मासाहोरात्रसंख्या ( ) आदित्यमासस्य सार्ध त्रिंशदिनानि (३०॥) कर्ममासस्य परिपूर्णा स्त्रिंशदहोरात्राः (३०) एकोनत्रिंशदहोरात्राः (२९-३२ चन्द्रमास्य द्वात्रिंशदद्वाषष्टि भागाः ६२ सप्तविंशतिरहोरात्राः (२७-२१ नक्षत्रमासस्य एकविंशतिःसप्तषष्टिभागाः ६७ एकत्रिंशदहोरात्राः एकविंश (३१-१२१ अभिवर्धितमासाहोरात्रप्रमाणम् त्युत्तरशतं चतुर्विशत्युत्तर १२४ शतभागाः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy