________________
४०६
चन्द्रप्रतिसूत्र
त्रीणि अहोरात्रशतानि सप्तविंशत्यधिकानि च भवन्ति नाक्षत्रः । एक पञ्चाशद् भागा सप्तषष्टिकृतेन छेदेन (३२७५१) ॥३॥
त्रीणि अहोरात्रशतानि त्र्यशीत्यधिकानि (अहोरात्राणां) चैव भवति अभिवर्द्धितः ।
(संवत्सरः) चतुश्चत्वारिंशद् भागा द्वाषष्टिकृतेन छेदेन (३
इति ।
३२७
४४/६२/
पञ्च संबत्सराहोरात्र कोष्ठकम् संख्या । संवत्संरनामानि
अहोरात्र संख्या | भागाः आदित्यसंवत्सरः
३६६ कर्मसंवत्सरः
३६० चन्द्रसंवत्सरः
३५४ १२/६२ नक्षत्रसंवत्सरः
५१/६७ अभिवर्धितसंवत्सरः
३८३ प्रत्येक संवत्रस्याहोरात्रपरिमाणमग्रे वक्ष्यति, प्रस्तावादिहाप्युक्तम् । अथ संवत्सराहोरात्र प्रमाणान्मासाहोरात्रसंख्या कति भवतीति प्रदर्श्यते-तथाहि सूर्यसंवत्सरः षद षष्टयधिक शतत्रयाहोरात्रपरिमितो (३६६) भवति, द्वादशभिश्च मासैरेकः संवत्सरो भवति, तत्र षट्पष्टयधिकानां त्रयाणां शतानां द्वादशभिर्भागो न हियते ततोऽर्धं क्रियते ततोलब्धमेकस्य दिवसस्यार्ध मित्येतावत्परिमाणः सार्धत्रिंशदहोरात्ररूपः सूर्यमासः (३०॥) १ । द्वितीयस्य कर्मसंवत्सरस्य षष्टयधिकानि त्रीणि शतानि रात्रिन्दिवानां (३६०) भवन्ति, तेषां द्वादशभिर्भागे हृते लब्धास्त्रिंशदहोरात्राः (३०) इत्येतत्परिमाणं कर्ममासस्य भवति २ । तृतीयस्य चान्द्रसंवत्सरस्य परिमाणं चतुष्पञ्चाशदधिकानि त्रीणि शतानि रात्रिन्दिवानाम् , एकस्याहोरात्रस्य च द्वादश द्वाषष्टि भागाः, तत्र चतुष्पञ्चाशदधिकानां त्रयाणां शतानां द्वादशभिर्भागो हियते, हृते च भागे लब्धा एकोनत्रिंशदहोरात्राः, तिष्ठन्ति शेषा षडहोरात्राः, एते च द्वाषष्टि भागकरणार्थ द्वाषष्टया गुण्यन्ते, जातानि द्विसप्तत्यधिकानि त्रीणि शतानि (३७२), एतेषु ये उपरितना द्वादश द्वाषष्टि भागाः स्थितास्ते प्रक्षिप्यन्ते, जातानि चतुरशीत्यधिकानि त्रीणि शतानि (३८४) एषां द्वादशभिर्भागे हते लब्धा द्वात्रिशद् द्वाषष्टि भागाः (२९२) एतावत्परिमाणश्चन्द्रमासः ३ । चतुर्थस्य
नक्षत्रसंत्सरस्य परिमाणं सप्तविंशत्यधिकानि त्रीणि शतानि रात्रिन्दिवानाम्, तथा एकस्य च