SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिक टीका प्रा० १० प्रा. प्रा. २० सू० ४ प्रमाणसंवत्सरनिरूपणम् ४०५ छाया--द्वे नाडिके (घटिके) मुहूर्तः, षष्टिः पुन नाडिकाः अहोरात्रः । पञ्चदश अहोरात्राः पक्षः त्रिंशदिनानि मासः ॥१॥ संवत्सरस्तु द्वादश मासाः, पक्षाश्च ते चतुर्विशतिः । त्रीण्येवशतानि षष्टयधिकानि भवन्ति रात्रिन्दिवानां तु ॥२॥ एषस्तु क्रमो भणितः, नियमात् संवत्सरस्य कर्मणः । कर्म इति सावन इति च ऋतुरिति च तस्य नामानि ॥३॥ इति । अथ च यावता कालेन प्रावृडादयः षडपि ऋतवः परिपूर्णाः प्रवृत्ता भवन्ति तावत्परिमितः कालविशेष आदित्य संवत्सरो भवति ऋतुपरिवर्तनस्यादित्याधीनत्वात् उक्तञ्च "छप्पि-उ ऊ परियट्टा एसो संवच्छरो उ आइच्चो" षडपि ऋतुपरिवर्ताः एष संवत्सरस्तु आदित्यः, इतिच्छाया । लोके यद्यपि षष्टयहोरात्रप्रमाणः प्रावृडादिक ऋतुः प्रसिद्धाऽस्ति तथापि वस्तुतः स एकषष्टयहोरात्रप्रमाणा वेदितव्यः, तथैवोत्तर कालमव्यभिचारदर्शनात् , अतएव चास्मिन् आदित्यसंवत्सरे षट् षष्टयधिकानि त्रीणि शतानि (३६६) रात्रिन्दिवानां भवन्ति । आदित्यमासः सार्ध त्रिंशदहोरात्र परिमितो, भवति, तत एतत्परिमितैर्वादशभिश्च मासैरादित्यसंवत्सरो भवति, उक्तंचान्यत्रापि पञ्चस्वपि संवत्सरेषु रात्रिन्दिवानां यथोक्तं परिमाणम् -- "तिन्नि अहोरत्तसया, छावट्टा भक्खरो हवइ वासो। तिन्ना सया पुण सट्ठा कम्मो संवच्छरो होइ ॥१॥ तिन्नि अहोरत्तसया, चउ पन्ना नियमसो हवइ चंदो । भागो य बारसेव य वावटि कएण छेएण ॥२॥ तिन्नि अहोरत्तसया, सत्तावीसा य होति नक्खत्ता । एक्कावन्नं भागा, सत्तट्टिकरण छेएण ॥३॥ तिन्नि अहोरत्तसया, तेसीईचेव होइ अभिवड्ढी । चोयालीसंभागा, वावट्टिकरण छेएण ॥४॥ छाया--त्रीणि अहोरात्रशतानि षट् षष्टयधिकानि (३६६) भास्करे भवति वर्षः । त्रीणि शतानि पुनः षष्टयधिकानि (३६०) अहोरात्राणां) कर्मसंवत्सरो भवति ॥१॥ त्रीणि अहोरात्रशतानि चतुष्पञ्चाशदधिकानि (३५४) (अहोरात्राणां) नियमतो भवति चान्द्रः (संवत्सरः)। भागश्च द्वादशैव च द्वाषष्टिकृतेन छेदेन(३५४१२) ॥२॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy