SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४०४ चन्द्रप्राप्तिसूत्रे व्याख्या--'ता' इति, 'ता' तावत् 'पमाणसंवच्छरे' प्रमाणसंवत्सरः प्रमाणनामकः संवत्सरः 'पंचविहे पण्णत्ते' पञ्चविधः प्रज्ञप्तः कथितः, 'तं जहा' तद्यथा-- ते यथा-'नक्खत्ते' नक्षत्रः--नक्षत्रसंवत्सरः १ 'चंदे' चान्द्रः चन्द्रसंवत्सरः २, 'उऊ' ऋतु:-ऋतु संवत्सरः ३, 'आइच्चे' आदित्यः-आदित्य संवत्सरः ४. 'अभिवडदिए' अभिवर्द्धितः-अभिवर्द्धितसंवत्सरश्च ५, इदं प्रमाणसंवत्सरस्य पञ्चविधत्वमुक्तम् , तत्र नक्षत्रसंवत्सरस्य, चन्द्रसंवत्सरस्य, अभिवर्द्धितसंवत्सरस्य च सविस्तरं स्वरूपं पूर्वमुपदर्शितमेव, अत्र ऋवादित्यसंवत्सरयोः स्वरूपं विविच्यतेतत्र संवत्सर इति किम् ! तदर्शयति द्वे घटिके एको मुहूर्तः ते त्रिंशद् एकोऽहोरात्रः, परिपूर्णाः पञ्चदशाहोरात्राः-एकः पक्षः, द्वौ पक्षौ एको मासः, ते द्वादशमासाः परिपूर्णा भवेयुस्तदा एकः संवत्सरो भवति । तत्र यस्मिन् संवत्सरे परिपूर्णानि षष्टयधिकानि त्रीणि शतानि (३६०) अहोरात्राणां भवन्ति स ऋतु संवत्सरः कथ्यते । ऋतवो हि वसन्तादयो लोकप्रसिद्धाः, तत्प्रधानः संवस्सरः ऋतुसंवत्सरः । अस्य संवत्सरस्यापरमपि नामद्वयं विद्यते, तथाहि-कर्म संवत्सरः सवनसंवत्सरश्च, तत्र कर्मेतिलौकिको व्यवहारः, तत्प्रधानः संवत्सरः कर्मसंवत्सरः यतोलोके प्रायः सर्वोऽपिव्यवहारोऽनेनैव संवत्सरेण जायते, तथा चैतत्सम्बन्धिनं मासमधिकृत्यान्यत्र प्रोक्तम्--- "कम्मो निरंसयाए, मासो बवहारकारगो लोए । सेसा उ संसयाए, ववहारे दुक्करो घेत्तुं ॥१॥" छाया-कर्म :-कर्ममासो निरंशतया मासो व्यवहार कारको लोके । शेषास्तु सांशतया व्यवहारे दुष्कराग्रहीतुम् ॥१॥ इति ॥ अयं कर्ममासो निरंशो भवति, निरंशः अंशरहितः परिपूर्ण त्रिंशदहोरात्रप्रमाणः, शेषा मासाः सांशाः अंशसहिता भवन्ति, अंशास्तु त्रिंशदहोरात्राणामुपरि घटिकादि रूपाः कथ्यन्ते, अतोऽन्ये मासा सांशतया व्यवहारे ग्रहीतुं दुष्करा भवन्ति, अत ऋतुसंवत्सरगतो मासः कर्म मासः कथ्यत इति भावार्थः । अस्यापरंनाम सवनसंवत्सरः, तत्र सवनमिति कर्मसु प्रेरण, प्रू प्रेरणे इति धातोः सवनं सिध्यति, सवनसंवत्सरः प्रेरणाप्रधानः संवत्सर इति, अनेन व्यवहारे प्रेरणा जायते, तत्प्रधानः संवत्सरः सवनसंवत्सरः कथ्यते, उक्तञ्च "बेनालिया मुहुत्तो, सट्ठी उण नालिया अहोरत्तो । पन्नरस अहोरत्ता, पक्खो तीसं दिणा मासो ॥१॥ संवच्छरो उ बारस, मासा पक्खा यत्ते चउव्वीसं । तिन्नेव सया सहा, हवंति राइंदियाणं तु ॥२॥ एसो सकमो भणिओ, नियमा संवच्छरस्स कम्मस्स । कम्मोत्ति सावणो-त्तिय, उउ इत्ति तस्स नामाणि ॥३॥"
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy