________________
चन्द्रशतिप्रकाशिका टीका प्रा. १० प्रा.प्रा.२०.३ द्वितीययुगसंवत्सरनिरूपणम् ४०६
अथ तृतीयं पर्व प्राह-अत्र तृतीय पर्व पृच्छात्त्वेन त्रिको राशिः स्थाप्यते, स च त्रेतौजराशि रिति 'तेओए एकतीसा' इति वचनात् अत्र एकं त्रिंशत् प्रक्षिप्यते, जाताश्चतुस्त्रिंशत् (३४), एते चतुर्विशत्यधिकशतेन भागं न लभन्ते, तत स्तस्यार्धं क्रियते जाताः सप्तदश (१७) एते त्रिंशता गुण्यन्ते, जातानि दशोत्तराणि पञ्च शतानि(५१०), एषां द्वाषष्टया भागो हियते, लब्धा अष्टौ (८) शेषाः स्थिताश्चतुर्दश (१४), ततश्छेद्यच्छेदकराश्योरपवर्त्तनायां कृतायां लब्धाः सप्तएकत्रिंशद्भागाः (-) तत आयातम्-तृतीयं पर्व चरभेऽहोरात्रेऽष्टौ मुहूर्तान् एकस्य
च मुहूर्तस्य सप्त एकत्रिंशद्भागान् (८७) अतिक्रभ्य समाप्तिमेतीति ।।३।। ___ अथ चतुर्थपर्वविषये प्रोच्यते-चतुर्थपर्वपृच्छयां चतुष्को राशिः स्थाप्यते (४)। अयं च कृतयुग्मराशि रिति 'कडजुम्मे नत्थि पक्खेवो' इति वचनादत्र न किमपि प्रक्षिप्यते । एते चत्वार श्चतुर्विशत्यधिकशतेन भागं न लभन्ते ततोऽस्या क्रियते जातौ द्वौ, एतौ त्रिंशता गुण्येते जाता षष्टिः (६०), एतस्या द्वाषष्टया भागो न प्राप्यते स्वल्पत्वात् , ततश्छेद्यच्छेदक राश्योरर्धेनापवर्तना करणेन जाता स्त्रिंशदेकत्रिंशद्भागाः । तत आगतम्-चतुर्थ पर्व चरमेऽहोरात्रे मुहूर्तस्य त्रिंशदेव त्रिंशद्भागानतिक्रम्य समाप्तिमेतीति ।४।। अनयैव रीत्या शेषेष्वपि पञ्चमपर्वत आरभ्य त्रयोविंशत्यधिशतपर्यन्तेषु पर्वसु भावना कर्तव्येति ।
अथ चतुर्विशत्यधिकशततमपर्वविषये प्राह एकस्य युगस्य पञ्चवर्षात्मकस्याभिवद्धित मासद्वयसंभवात् पूर्वार्द्ध द्वाषष्टिः, उत्तरार्धेऽपि द्वाषष्टिरिति मिलित्वा सर्वाणि चतुर्विशत्याधिकशत (१२४) संख्यकानि पर्वाणि भवन्ति, तत्रान्तिम चतुर्विशत्यधिक शतरूपो राशिरत्र स्थाप्यते (१२४), अस्य च चतुर्भिर्भागे हते न किमपि शेषमवतिष्ठते इत्ययं कृतयुग्मोराशिस्ततः 'कडजुम्मे नत्थि पक्खेवो' इत्यत्र न किमपि प्रक्षिप्यते, ततश्चतुर्विशत्यधिकशतेन भागे हते जातो राशि निलेपः, न किमप्यवशिष्यते तत आगतम्-सम्पूर्ण जरमम होरात्रं भुक्त्वा चतुर्विशत्यधिकशततमं पर्व समाप्तं भवतीति ।।सू० ३॥
॥ इति युगसंवत्सरप्रकरणं समाप्तम् । तदेवमुक्तो युगसंवत्सरः, सम्प्रति प्रमाणसंवत्सरमाह--'ता पमाणसंवच्छरे' इत्यादि ।
मूलम्-ता पमाणसंवच्छरे पंचविहे पण्णत्ते, तं जहा-नक्खत्ते १ चंदे २, उऊ ३ आइच्चे ४ अभिवढिए ५॥ सू० ४॥
छाया-तावत् प्रमाणसंवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-नाक्षत्रः १, चान्द्रः २, आर्तवः ३ आदित्यः ४ अभिवद्धितः ५॥ सू० ४ ॥