SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसू परिमितेषु मुहूर्तेषु, कस्य ? 'अहोरत्तस्स' अहोरात्रस्य तावत्परिमितेषु मुहूर्तेषु 'तं पव्वं तत्पर्व समाप्तं भवति 'जाणे' जानीयात् । भागे हृते यो राशिः शेषोऽवतिष्ठते तं राशि मुहूर्तस्य भागरूपं जानीयात् यत्-एकस्य मुहूर्तस्य एतावन्तो भागा इति । तद्विवक्षितं पर्व चरमेऽहोरात्रे सूर्योदयादनन्तरं तावत्सु मुहूर्तेषु तावत्सुच मुहूर्तभागेषु व्यतीतेषु परिसमाप्तिं प्राप्तमिति ज्ञातव्यमिति ॥३॥ _गता करणगाथा व्याख्या, अथ तद्भावना प्रदर्यते-अत्र कोऽपि पृच्छेत्-प्रथमं पर्वचरमेऽहोरात्रे कति मुहूर्तातिक्रमेण परिसमाप्तिं गतम् ? इति प्रश्ने प्रथमं पर्व पृच्छात्वेन एकः स्थाप्यते, अयमेकरूपो राशिः कल्योजः 'कलिओगे तेणउई' इति वचनादत्र त्रिनवतिः प्रक्षेपणीया, प्रक्षेपणे जाता चतुर्नवतिः (९४) अस्य चतुर्विशत्यधिकेन शतेन (१२४) भागो वियते एकस्मिन् युगे पूर्वाद्धे उत्तरार्धं च पर्वणां चतुर्विशत्यधिकशतसंख्यकत्वात् । अत्र भाजकाद् भाज्यस्य स्तोकत्वाद् भागो न लभ्यते ततो यथासंभवं करणलक्षणं कर्त्तव्यम् तत्र चतुर्नवतेरधं क्रियते जाताः सप्तचत्वरिंशत् (४७), एते त्रिंशता गुण्यन्ते जातानि चतुदशशतानि दशोत्तराणि (१४१०) एषां द्वाषष्टया भागो हियते, लब्धा द्वाविंशतिर्मुहूर्ताः (२२) शेषातिष्ठन्ति षट्चत्वारिंशत् (४६), ततश्छेद्य-छेदकराश्योरर्धेनापवर्तना क्रियते तत्र छेधराशेः षट्चत्वरिंशद्रूपस्यार्धं त्रयोविंशतिः (२३) छेदकराशेषिष्टिरूपस्यार्धमेकत्रिंशत् (३१)तेन लब्धास्त्रयोविंशतिरेकत्रिंशद्रागा (३) तत आगतम्-प्रथमं पर्व चरमेऽहोराने द्वाविंशति मुहूर्तान, एकस्य च मुहूर्तस्य त्रयोविंशतिमेकत्रिंशद्भागान् (२२-२३) अतिक्रम्य समाति मतमिति ।१॥ ___अथ द्वितीयपर्वप्रश्ने प्राह-द्वितीयपर्वप्रश्नत्वेन द्विको ध्रियते, स च द्वापरयुग्मराशिरिति 'दावरम्मि बावट्ठी' इति वचनादत्र द्वाषष्टिः प्रक्षिप्यते जाता चतुष्षष्टिः (६४) इयं चतुविंशत्यधिकशतेन भागं न लभते स्तोकत्वात् ततोऽस्या अर्ध क्रियते जाता द्वात्रिंशत् (३२) सा त्रिंशता गुण्यते जातानि षष्टयधिकानि नवशतानि (९६०) तेषां द्वाषष्टया भागो हियते लब्धाः पञ्चदश मुहूर्ताः (१५), पश्चात्तिष्ठाते त्रिंशत् , ततश्छेद्यच्छेदकराश्योरघेनापवर्तना करणे लब्धाः पञ्चदश एकत्रिंशदभागाः (१५), तत आगतम् द्वितीय पर्व चरमेऽहोरात्रे पञ्चदशमुहूर्तानाम् , एकस्य च मुहूर्तस्य पञ्चदशैकत्रिंशद्भागानाम् ११५-१५) अतिक्रमणे समाप्तं भवतीति ।२।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy