SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१० प्रा०प्रा.२० सू.३ द्वितीययुगसंवत्सरनिरूपणम् ४०१ पर्वाणि समापयतीति । एवमेव करणवशात् युगस्योत्तरार्धेऽपि द्वाषष्टि पर्वसु सूर्यनक्षत्राणि स्वयमूहनीयानीति । ____ युगस्य चरमदिवसे किं पर्व कियत्सु मुहूर्तेषु गतेषु समाप्तिमेतीत्येतद्विषयारितनः गाथा अत्र प्रदर्श्यन्ते "चउहिं हियम्मि पव्वे, एक्को सेसम्मि होइ कलिओगो । बेसु य दावरजुम्मो, तिसु तेया चउसु कडजुम्मो ॥१॥ कलिओगे तेणउई, पक्खेवो दावरम्मि बावट्ठी । तेओए एक्कतीसा, कड जुम्मे नस्थि पक्खेवो ॥२॥ सेसद्धे तीस गुणे, बावट्ठो भइयंमि जं लद्धं । जाणे तइसु मुहुत्तेसु, अहोरत्तस्स तं पव्वं ॥३॥ छाया-चतुर्भिहेते (भक्ते) पर्वणि, एकस्मिन् शेषे भवति कल्योजः । द्वयोश्च द्वापरयुग्मः, त्रिषु त्रेतौजः चतुर्षु कृतयुग्मः ॥१॥ कल्योजे त्रिनवतिः प्रक्षेपो द्वापरे द्वाषष्टिः । त्रेतौजे एकत्रिंशत्, कृतयुग्मे नास्ति प्रक्षेपः ॥२॥ शेषार्धे त्रिंशद्गुणिते द्वाषष्टि भाजिते यल्लब्धम् । जानीयात् तावत्केषु मुहूर्ते अहोरात्रस्य तत् पर्व ॥३॥ इति एतासां व्याख्या-'चउहि' इत्यादि, 'पव्वे' पर्वणि पर्वराशौ 'चउहिं हियमि' चतुर्भि र्भागे हृते सति ‘एक्के सेसंमि' एकस्मिन् शेषे सति ययेकः शेषोऽवतिष्ठते तदा सः 'होइ कलिओगो' भवति कल्योजः कल्योजो भवति, 'बेसु य दावरजुम्मो' द्वयोश्च शेषयोपिरयुग्मः, 'तिसु तेया' त्रिषु शेषेषु त्रेतौजः, 'चउसु कडजुम्मो' चतुर्यु शेषेषु च कृतयुग्मो भवतीति ॥१॥ अर्थतेषु प्रक्षेपराशिमाह-'कलिओगे' इत्यादि 'कलि ओगे' कल्योजे कल्योजराशौ 'तेणउई त्रिनवतिः 'पक्खेवो' प्रक्षेपः प्रक्षेपणीयो राशिः, 'दावरम्मि बावट्ठी' द्वापरे द्वापरराशौ द्वाषष्टिः द्वाषष्टिराशिः प्रक्षेपणीयो भवति, 'तेऊएएक्कतीसा' त्रेतौजे एकत्रिंशत् , 'कडजुम्मे नत्थि पक्खेवो' कृतयुग्मे न कोऽपि प्रक्षेपः प्रक्षेपणीयो राशिनं भवतीति ॥२।। एवं प्रक्षेपे कृते तेषां प्रक्षिप्तप्रक्षेपाणां पर्वराशीनां चतुर्विशत्यधिकेन पर्वशतेन (१२४) भागो हियते, भागे हृते यच्छेषं तस्य किं कर्त्तव्यमिति तद्विधिमाह'सेसद्धे' इत्यादि, 'सेसद्धे' शेषार्ध शेषस्य भागावशिष्टस्याधं क्रियते, तस्मिन् 'तीसगुणे' त्रिंशद्गुणिते त्रिंशता गुणनं क्रियते, ततस्तस्य 'बावट्ठीभाइए' द्वाषष्टि भाजिते द्वाषष्टया भागेहृते सति 'जं लद्धं' यलब्धं यो राशिर्लब्धः, 'तइसु मुहुत्तेसु' तावत्केषु मुहूर्वेषु भागलब्धराशि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy