________________
चन्द्रप्राप्तिसूत्रे वृद्धि देवतोपलक्षिता उत्तरभाद्रपदाः १६, सप्तदशस्यापि उत्तर भाद्रपदा १७, अष्टादशस्य पुण्यः-पुण्य देवतोपलक्षिता रेवती १८, एकोनविंशतितमस्याश्वः-अश्वदेवतोपलक्षिता अश्विनी १९, 'छक्कं च कत्तिायाई' षट्कं च कृत्तिकादिकमिति कृतिकात आरभ्य पुष्यपर्यन्तानि नक्षत्राणि क्रमेण षण्णां पर्वणाम्, तथाहि
____विंशतितमस्य कृत्तिका २०, एकविंशतितमस्य रोहिणी २१, द्वाविंशतितमस्य मृगशिरः २२, त्रयोविंशतितमस्य आर्द्रा २३, चतुर्विंशतितमस्य पुनर्वसुः २४, पञ्चविंशतितमस्य पुष्यः २५, षड्विंशतितमस्य पितृदेवतोपलक्षिता मघा २६, सप्तविंशतितमस्य भग:-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः २७, 'अज्जमदुर्ग' अर्यमद्विकमिति अष्टाविंशतितमस्य २८, एकोनत्रिंशत्तमस्य २९, च द्वयोरपि 'अज्जम' इति अर्यमा-अर्यमदेवतोपलक्षिता उत्तराफाल्गुन्यः २८-२९ त्रिंशत्तमस्य चित्रा ३०, एकत्रिंशत्तमस्य वायुः-वायुदेवतोपलक्षिता स्वातिः ३०, द्वात्रिंशत्तमस्य विशाखा ३२, त्रयस्त्रिंशत्तमस्यानुराधा ३३, चतुस्त्रिंशत्तमस्य ज्येष्ठा ३४ पञ्चत्रिं शत्तमस्य पुनरायुः-आयुर्दैवतोपलक्षिताः पूर्वाषाढाः ३५, 'वीसुदुगं' इति विष्वगद्विकं विष्वग द्वयोर्नक्षत्रयोः तथाहि षट्त्रिंशत्तमस्य विश्वग्देवतोपलक्षिता उत्तराषाढाः ३६, सप्तत्रिंशत्तमस्यापि उत्तराषाढाः ३७, अष्टत्रिंशत्तमस्य श्रवणः ३८, एकोनचत्वारिंशत्तमस्य धनिष्ठा ३९, चत्वारिंशत्तमस्याज:-अजदेवतोपलक्षिताः पूर्वभाद्रपदाः ४०, एकचत्वारिंशत्त नस्याभिवृद्धिः'अभिवुइढिदुगं' अभिवृद्धियोरिति अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदाः ४१, द्विचत्वारिंशत्तमस्याप्युत्तरभाद्रपदा, ४२, त्रिचत्वरिंशत्तमस्याश्वः अश्वदेवतोपलक्षिता अश्विनी ४३, चतुश्चत्वारिंशत्तमस्य यमः-यमदेवतोपलक्षिता भरणी ४४, पञ्चचत्वारिंशत्तमस्य बहुला-बहुलदेवतोपलक्षिताः कृत्तिका ४५, षट् चत्वारिंशत्तमस्य रोहिणी ४६, सप्तचत्वारिंशत्तमस्य सोमः-सोमदेवतोपलक्षितं मृगशिरः ४७, 'अदिइदुगं' अदिति द्विकम्, इति-अष्टचत्वारिंशत्तमस्य एकोन पञ्चाशत्तमस्य चादितिः-अदिति देवतोपलक्षितं पुनर्वसुनक्षत्रम् ४८-४९, पञ्चाशत्तमस्य पुष्यः ५०, एकपञ्चाशत्तमस्य पिता-पितृदेवतोपलक्षिताः मघा ५१, द्विपञ्चशत्तमस्य भगः-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः ५२, त्रिपञ्चाशत्तशस्यार्यम-अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः ५३, चतुष्पञ्चाशत्तमस्य हस्तः ५४, अतोऽग्रे 'चित्ता य जिवज्जा अभिई अंताणि अट्ठरिक्खाणि' चित्रा चेति चित्रादीनि अभिजित्पर्यन्तानि ज्येष्ठारहितानि अष्टनक्षत्राणि क्रमेण वक्तव्यानि, तथाहि -पञ्चपञ्चाशत्तमस्य चित्रा ५५, षट् पञ्चाशत्तमस्य स्वातिः ५६, सप्तपञ्चाशत्तमस्य विशाखा ५७, अष्टपञ्चाशत्तमस्यानुराधा ५८ एकोनषष्टितमस्य मूलम् ५९, षष्टितमस्य पूर्वाषाढाः ६०, एकषष्टितमस्योत्तराः षाढाः ६१, द्वाषष्टितमस्याभिजित् ६२, इति । एतानि द्वाषष्टिनक्षत्रानि यथायोगं भुक्त्वा सूर्यः युगस्य पूवार्धे द्वाषष्टिसंख्यकानि