________________
२२
चन्द्रप्राप्तिसूत्रे छाया–यदि खलु तस्यैव आदित्यसंवत्सरस्य सकृद् अष्टादशमुहूर्ती दिवसो भवति, सकृद् अष्टादशमुहूर्ता रात्रिर्भवति, सकृद् द्वादशमुहतों दिवसो भवति, सकृद् द्वादशमुहूर्ता रात्रिर्भवति । अथ प्रथमे षण्मासे अस्ति अष्टादशमुहर्ता रात्रिः, नास्ति अष्टादशमुहूत्तों दिवसः, अस्ति द्वादशमुहूर्तो दिवसः, नास्ति द्वादशमुहर्ता रात्रिर्भवति । द्वितीये षण्मासे अस्ति अष्टादशमुहर्तो दिवसः नास्ति अष्टादशमहर्ता रात्रिः, अस्ति द्वाद. शमुहुर्ता रात्रिः, नास्ति द्वादशमुहुर्ती दिवसो भवति । प्रथमे वा षण्मासे द्वितीये वा षण्मासे नास्ति पञ्चदशमुहत्तॊ दिवसो भवति. नास्ति पञ्चदशमुहुर्ता रात्रिर्भवति तत्र को हेतुरिति वदेत् ? ॥ सू० ४(१)॥
व्याख्या-'जइ खलु' यदि खलु सूर्यस्य सामान्यतया परिभ्रमणस्य चतुरशीत्यधिकैकशतसंख्यकानि सर्वाणि मण्डलानि(१८४)सन्ति, तत्र षट्पष्टयधिकशतत्रय(३६६)रात्रिन्दिवपरिमितायामद्धायां मध्यगतानि द्वयीत्यधिकैकशत(१८२)मण्डलानि द्विःकृत्वश्चरति; प्रथमान्तिममण्डलयोश्चैकैकवारं चरतीत्येवं भगवता प्ररूपितम् 'तस्सेव' तस्यैव षट्पष्टयधिकशतत्रयरात्रिन्दिवपरिमाणस्य (३६६) 'आइच्चसंवच्छरस्स' आदित्यसंवत्सरस्य 'सई' सकृत् एकवारम् 'अट्ठारसमुहुत्ते' अष्टादशमुहूर्तः अष्टादशमुहूर्तपरिमितः 'दिवसे भवई' दिवसो भवति, तथा 'सई सकृत् एकवारम् 'अट्ठारसमुहुत्ता' अष्टादशमुहूर्ता अष्टादशमुहूर्तपरिमिता 'राई भवई' रात्रिर्भवति पुनश्च ‘सई सकृत् एकवारं 'दुवालसमुहुत्तो' द्वादशमुहूर्तः द्वादशमुहूर्तपरिमितः 'दिवसे भवई' दिवसो भवति, तथा 'सई' सकृत्-एकवारं 'दुवालसमुहुत्ता' द्वादशमुहूर्ता द्वादशमुहूर्तपरिमिता 'राई भवइ' रात्रिर्भवति 'से' अथ तत्रापि 'पढमे छम्मासे' प्रथमे षण्मासे यदा सूर्यः चतुरशी. त्यधिकशततमरूपेऽन्तिमे सर्वबाह्यमण्डले चरति तद्रपे प्रथमे षण्मासे इत्यर्थः 'अस्थि' अस्ति 'अट्ठारसमुहुत्ता राई' अष्टादशमुहूर्त्ता रात्रिः, किन्तु 'नत्थि' नास्ति 'अट्ठारसमुहुत्ते दिवसे' अष्टादशमुहुर्तो दिवसः, तथा-'अत्थि' अस्ति 'दुवालसमुहुने दिवसे'द्वादशमुहूत्र्तो दिवसः, किन्तु 'नत्थि' नास्ति 'दुवालसमुहुत्ता राई द्वादशमुहूर्ता रात्रिर्भवति । एवम्-'दोच्चे छम्मासे' द्वितीये षण्मासे सूर्यस्य चतुरशीत्यधिकैकशत (१८४) संख्यकेषु मण्डलेषु प्रथममण्डलोपरि परिभ्रमणरूपे द्वितीये षण्मासे सर्वाभ्यन्तरमण्डरूपे इत्यर्थः 'अत्थि' अस्ति 'अहारसमुहुत्ते दिवसे' अष्टादशमुहूत्तों दिवसः किन्तु 'णत्थि' नास्ति 'अठारसमुहुत्ता राई' अष्टादशमुहूर्ता रात्रिः, तथा 'अत्थि' अस्ति 'दुवालसमुहुत्ता राई' द्वादशमुहूर्ता रात्रिः किन्तु 'णत्थि' नास्ति 'दुवालसमुहुत्ते दिवसे' द्वादशमुहूर्तों दिवसो भवति । पुनश्चैवमपि भवति यत् 'पढमे वा छम्मासे' प्रथमे वा षण्मासे अन्तिममण्डलोपरि सूर्यसंचरणसमये, तथा 'दोच्चे वा छम्मासे' द्वितीये वा षण्मासे प्रथममण्डलोपरि स्थिते सूर्ये 'णत्यि' अत्र ‘णस्थि' तिनकारवाचकोऽव्ययः ‘पण्णरसमुहुत्ते दिवसे' पञ्चदशमुहूत्तों दिवसः 'भवई' भवति, णत्थि' न 'पण्णरसमुहुनाराई' पञ्चदशमुहूर्ता रात्रिः भवइ' भवति 'तत्थ'