SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा०१-२०३-४ सूर्यसंचारमण्डलसंख्या- दिनरात्रिमाननि०२१ छाया -- तावत् पतया खलु अड्या सूर्यः कति मण्डलानि चरति ? कति मण्डलानि द्विः कृत्वश्वरति ? कति मण्डलानि एककृत्वश्वरति ? । तावत् चतुरशीतिर्मण्डलशतं चरति, द्वघशीतं च मण्डलशतं द्विः कृत्वश्चरति, तद्यथा - निष्क्रामन् चैव प्रविशन् चैव । द्वे च खलु मण्डले एककृत्वश्चरति, तद्यथा - सर्वाभ्यन्तरं चैव मण्डलं, सर्वबाह्यं चैव मण्डलम् ॥ सू० ३ ॥ व्याख्या -- 'ता' तावत् प्रथमम् 'एयाए' एतया - 'सर्वाभ्यन्तरमण्डलात् सर्वबाह्यमण्डले गत्वा पुनस्ततो निवर्त्य सर्वाभ्यन्तरमण्डले समागच्छति एतद्रूपया 'अद्धार' अद्धया - कालेन 'रिए' सूर्यः 'कई मंडलाई' कति मण्डलानि कतिसंख्यकानि मण्डलानि 'चरइ' चरति-भ्रमण - विषयीकरोति ? तेषु पुनः 'कई मंडलाई' कति मण्डलानि 'दुक्खुत्तो' द्विः कृत्वः - द्विवारं 'चरई ' चरति ? तथा ' कइ मंडलाई' कति मण्डलानि 'एगखुत्तो' एककृत्वः - एकवारं 'चरई' चरति ? भगवान् नाद - हे गौतम ! 'ता' इति इति तावत् 'चुलसी६' चतुरशीतिः 'मण्डलसयं' मण्डलशतं च चतुरशीत्यधिकं शतमेकं १८४ मण्डलानां 'चरई' चरति भ्रमणविषयीकरोति ततोऽधिकस्य सूर्यसम्बन्धिमण्डलस्याऽसद्भावात् । तथा 'बेयासीई' द्वयशीतिः 'मंडलसयं' मण्डलशतं च द्वयशीत्यधिकं शतमेकं १८२ मण्डलानां 'दुक्खुत्तो' द्विः कृत्वः द्विवारं 'चरइ' चरति 'तं जहा ' तद्यथा - 'णिक्खममाणे चेव पविसमाणे चेव' निष्क्रामन् चैव सर्वाभ्यन्तर मण्डलाद्वहिर्निर प्रविशन् चैव सर्वबाह्य मण्डलात्सर्वाभ्यन्तरमण्डलं प्रापयंश्चेति द्विवारं चरतीति । 'दुबे य खलु मंडलाई ' द्वे च खलु मण्डले सर्वाभ्यन्तर सर्व बाह्यरूपे ' एगक्खुत्तो' एकवारं एकैकवारम् 'चरइ' चरति - 'तं जहा ' तद्यथा - 'सम्वन्तरं चैव मंडलं' सर्वाभ्यन्तरं चैव मण्डलम् तथा 'सव्वबाहिरं चैव मंडलं' सर्वबाह्यं चैव मण्डलम् एकवारं सर्वाभ्यन्तरमण्डलम्, एकवारं च सर्वबाह्यमण्डलमिति भावः ॥ सू० ३॥ अथादित्य संवत्सरस्य दिवसरात्रिमुहूर्त्तविषये प्रश्नयति - ' जइ खलु' इत्यादि । मूलम् - जइ खलु तस्सेव आइच्चसंबच्छरस्स सईं अट्ठारसमुहुत्ते दिवसे भवइ, सई अट्ठारसमुहुत्ता राई भवइ, सई दुवालसमुहुत्ते दिवसे भवइ, सई दुवालसमुहुत्ता राई भवइ । से पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राई, नत्थि अट्ठारसमुहुत्ते दिवसे, अस्थि दुवासमुहुत्ते दिवसे, नत्थि दुवालसमुहुत्ता राई भवइ । दोच्चे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे, णत्थि अट्ठारसमुहुत्ता राई, अस्थि दुवालसमुहुत्ता राई, णत्थि दुवालसमुहुत्ते दिवसे भवइ । पढमे वा छम्मासे दोच्चे वा छम्मासे णत्थि पणरसमुहुत्ते दिवसे भवइ णत्थि पणरसमुहुत्ता राई भवइ तत्थ को उत्ति एज्जा ? || सू० (४) १ ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy