SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रज्ञप्तिसूत्रे एसा णं अद्धा केवइणं राईदियग्गेणं आहिएत्ति वएज्जा ? ता तिष्णि छावट्ठे राईदियसयाई राईदियग्गेणं आहिएत्ति वएज्जा ।। सू० २ ॥ २० छाया -- तावत् यदा खलु सूर्यः सर्वाभ्यन्तरात् मण्डलात् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति, सर्वबाह्यात् मण्डलात् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति एषा खलु अद्धा कियता रात्रिंदिवाग्रेण आख्यातेति वदेत् । तावत् त्रीणि षट्षष्टिः रात्रिन्दिवशतानि रात्रिन्दिवाग्रेण आख्यातेति वदेत् ॥ सू० २ ॥ - व्याख्या – 'ता' तावत् तावच्छब्दार्थः पूर्ववदेव सर्वत्र भावनीयः, यत् - अन्येषु प्रष्टव्यविषयेषु सत्स्वपि प्रथमं सूर्यचारादिविषयं पृच्छामीति गौतमवाक्यम्, हे भगवन्, 'जया णं' यदा खलु यस्मिन् काले 'सूरिए' सूर्यः 'सव्वभंतराओ मंडलाओ' सर्वाभ्यन्तरात् सर्वेषां मण्डलानां मध्ये यद् आभ्यन्तरं मण्डलं नहि तदग्रे आभ्यन्तरत्वं मण्डलानाम्, तस्मात् निस्सृत्येतिशेषः 'सव्ववाहिरं मंडल' सर्वबाह्यं मण्डलं, सर्वेषां मण्डलानां मध्ये यद् बाह्यं मण्डलं, नहि तद मण्डलानां बाह्यत्वम्, बाह्यत्वेन सर्वान्तिमं मण्डलं 'संकमित्ता' उपसंक्रम्य - आक्रम्यतत्रागत्येत्यर्थः 'चारं चरइ' चारं चरति - गतिं करोति, तथा यदा च 'सव्वबाहिराओ मंडलाओ' सर्वबाह्यात् मण्डलात् प्रतिक्रम्य प्रतिनिवर्त्य 'सव्वन्तरं मंडलं' सर्वाभ्यन्तरं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति तदा 'एसा णं' एषा खलु 'अद्धा' - एषः कालः सर्वाभ्यन्तरमण्डलान्निस्सृत्य सूर्यः सर्वबाह्यमण्डले गत्वा पुनस्तत्रैव सर्वाभ्यन्तरमण्डले समागच्छति, एतद्विषय कोऽन्तरकालः 'केवइएणं राईदियग्गेणं' कियता रात्रिन्दिवाग्रेण कतिसंख्यकेनाहोरात्रप्रमाणेन 'आहिए' आख्यतः - कथितः पूर्वतीर्थकरगणधरैः ? 'त्ति' इति 'वएज्जा' वदेत् कथयतु भवान् इति गौतमप्रश्नः । भगवानाह - हे गौतम ! 'ता' तावत् प्रथमं शृणु, यत् यदा सर्वाभ्यन्तरमण्डलान्निस्सृत्य सर्व बाह्यमण्डलं प्राप्य चारं चरति, एवं सर्वबामण्डलात्प्रतिनिवर्त्य सर्वाभ्यन्तरमण्डलमभिव्याप्य चारं चरति, एतद्विषयकोऽन्तरकालः 'तिण्णि छावट्ठी राईदियसयाई' त्रीणि षट्षष्टिः रात्रिन्दिवशतानि षट्षष्टयुत्तरत्रिशताहोरात्राणि ( ३६६ ) 'आहिएत्ति' आख्यातः इयद्दिवसप्रमाणोपेतः सूर्यसंवत्सरः कथित इति 'वएज्जा' वदेत् स्वशिष्यादिभ्य इति ॥ सू० २ ॥ पुनः प्रश्नयति - ' ता एयाए णं' इत्यादि । मूलम् – ता एयाए णं अद्धाए सूरिए कई मंडलाई चरइ ? कई मंडलाई दुक्खुत्तो चरइ ? कइ मंडलाई एगखुत्तो चरइ ? । ता चुलसीई मंडलसयं चरइ, बेयासी ई च मंडलसयं दुक्खुत्तो चरइ, तं जहा - निक्खममाणे चेव पविसमाणे चेव । दुवे य खलु मंडलाई एगक्खुत्तो चरइ, तं जहा - सव्वन्तरं चेव मंडलं, सव्वबाहिरं चेव मंडल ॥ सु०३ ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy