SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-१सू०२बाह्याभ्यन्तरमण्डलसंचारे रात्रिन्दिवप्रमाणनि० १९ त्रिंशदुत्तराष्टादशशतानि १८३० भवन्ति । अस्याः १८३० संख्यायास्त्रिंशता भागे हते एकस्या ऋतोः षष्टिरहोरात्रा भवन्ति ६० । एषां मुहूर्तानयनार्थ त्रिशता गुणने जातानि अष्टादश शतानि १८०० । एकस्या ऋतोद्वो मासौ भवतोऽतोऽष्टादशशतानि द्वाभ्यां विभज्यन्ते ततो जातानि एकस्य ऋतुमासस्य नव शतानि (९००) परिपूर्णानि मुहूर्तानामिति ॥ एतत्सुखावबोधार्थ यन्त्रं प्रदाते । युगमासाः | १ मासस्याहोरात्राः । १ मासस्य मुहूर्ताः नक्षत्रमास २७ दि. ९ मु. २७ ८१९ २७ माश्रित्य, सूर्यमासमश्रित्य | ३० दि. १५ मु. ( ३०॥) चन्द्रमास २९ दि. ३२ माश्रित्य, ८८५-३० अथवा२९दि.१५मु.२९॥-१ | ६२ मासनाम ६७ ६७ ६२ ऋतुमासमाश्रित्य ३० ६७ अथ युगमासानयनविधिः-पञ्चसंवत्सरात्मकस्य युगस्य त्रिंशदुत्तराष्टादशशत-१८३०संख्यका अहोरात्रा भवन्ति, ते च यस्याः संख्याया नक्षत्रादिमासस्याहोरात्रैर्गुणने त्रिंशदुत्तराष्टादशशत१८३० संख्या पूर्यते, ते एव नक्षत्रादिमासमाश्रित्य युगमासा भवन्ति, तथाहिनक्षत्रमासस्याहोरात्राः सप्रविंशतिर्नवमुहूत्र्तयुक्ता (अहो०२७ मु. ९)तथा सप्तविंशतिः सप्तषष्टि - भागाः, इयं संख्या सप्तषष्ट्या गुण्यते तदा जायन्ते युगदिनानि पूर्वोक्तानि त्रिंशदुत्तराष्टादशशतसंख्यकानि १८३०, ततो नक्षत्रमासमाश्रित्य जाता युगमासाः सप्तषष्टिः ६७ । एवं सूर्यादिमासविषयेऽपि विज्ञेयम् , तच्चोपरितनकोष्ठ के प्रदर्शितं ततोऽवसेयम् । तदेवं माससम्बधिनं मुहूर्तपरिमाणं प्रदर्शितम् , एतदनुसारेण चन्द्रादिसंवत्सरसम्बन्धिनं युगसम्बन्धिनं च मुहूर्तपरिमाणं स्वयमूहनीयमिति ॥ सू० १ ॥ पूर्व मुहूर्तपरिमाणं प्रदर्शितम् , साम्प्रतं प्रत्ययनं या दिवसरात्रिविषया मुहूर्तानां वृद्धिरपवृद्धिश्च भवति तां प्रदर्शयितुमाह-'ता जया गं' इत्यादि । मूलम्-ता जया णं ते मूरिए सव्वन्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, सव्वबाहिराओ मंडलाओ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy