SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे द्वाषष्टया गुणयितव्य इति गुणकारच्छेदराश्यो वा षष्टाचाऽपवर्तना क्रियते, जाता द्वा षष्टयाऽपवतितो द्वाषष्टिरूपो गुणकारराशिरेकरूपः (१), छेदराशि: चतुष्पञ्चाशदधिकैक चत्वारिंशच्छतरूपो द्वा षष्ट्याऽपवर्तितो जातः सप्तषष्ठिरूपः (६७), ततोऽष्टषष्टयधिकैकशतरूपो राशिरेकेन गुणितो जा तस्तावानेत (१६८), अस्य सप्तषष्ट या भागे हते लब्धौ द्वौ द्वाषष्टिभागौ, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टि भागाः (३३-1 ) इति । एवमेतत् प्रथम गाथोक्त ध्रुवराशि प्रमाणं समुपपन्नमिति द्वितीयगाथाभावना ॥२॥ __ अथ तृतीया गाथा व्याख्यायते-'इच्छापबगुणाओ' इत्यादि । 'इच्छापव्वगुणाओ' इच्छापर्वगुणात्-इच्छा यस्य पर्वणो ज्ञतुमिच्छा, तद्विषयं यत् पर्वेति पर्वसंख्यानं, तद् इच्छापर्व, तेन गुणः-गुणकारो यस्य ध्रुवराशे स इच्छापर्वगुणः, तस्मात् इच्छापर्वगुणात् इच्छितपर्वगुणितात्, एतादृशात् 'धुवर सीओय' ध्रुवराशितश्च ध्रुवराशिसकाशाच्च 'सोहणं कुणसु' शोधनं कुरुत, केषामित्याह 'पूसाइणं कमसो' पुष्यादीनां नक्षत्राणां क्रमशः-क्रमेण शोधनं कुर्यादित्यर्थः । कथमेतद् ज्ञातम् ! 'जह दिट्ठमणंतनाणीहि' यथा दिष्टम् यथोपदिष्टमनन्तज्ञानिभिस्तथा कुर्यादिति भावः ॥२॥ अथ तृतीय गाथया तदेव शोधनकं दर्शयति-'उगवीसं' इत्यादि, 'उगवीसं च मुहत्ता' एकोनविंशतिश्च मुहूर्ताः, एकस्य च मुहूर्तस्य 'तेयालीसं बिसद्विभागा य' त्रिचत्वारिंशद् द्वाषष्टि भागाश्च तथा एकस्य द्वाषष्टि भागस्य 'तेत्तीस चुण्णियाओ' त्रयस्त्रिंशच्चूर्णिका भागाः (१९-४३३३ ) 'पूसस्स सोहणं एयं' पुष्यस्य शोधनमेतत्-अनुपदोक्तमेतत् पुष्यनक्षत्रस्य शोधनकमस्ति ॥३॥ अथ तृतीयगाथाया भावना-एतावत्कं पुष्यशोधनकं कथमुपपद्यते ? इत्यत्राह-इह पाश्चात्य युगपरिसमाप्तौ पुष्यनक्षत्रस्य त्रयोविंशतिः सप्तषष्टिभागा गताः, शेषाश्चतुश्चत्वारिंशद्भागा [४४] अवतिष्ठन्ते, तत् एते मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातानि विंशत्यधिकानि त्रयोदशशतानि ( १३२०), एषां सप्तषष्टया भागो हरणीयः, लब्धा एकोनविंशतिर्मुहूर्ताः ( १९ ), शेषाः सप्तचत्वारिंशत् (४७) तिष्ठन्ति, ते द्वःषष्टि भागनायनार्थ द्वाषष्टया गुण्यन्ते, जातानि-चतुर्दशोत्तराणि एकोनत्रिंशच्छतानि (२९१४) तत एतषां सप्तषष्टया भागो हियते, लब्धास्त्रिचत्वारिंशत् (४३) द्वाषष्टि भागाः ये शेषास्ते एकस्य च द्वाषष्टि भागस्य त्रयस्त्रिंशत् (३३) सप्तषष्टि भागा इति तृतीय गाथा ॥ ___ अथ चतुर्थी गाथां व्याख्यायते ---'उगुयाल सयं' इत्यादि 'उगुयालसयं' एकोनचत्वारिंशं शतम्-एकोन चत्वारिंशदधिकं शतं मुहूर्तानां एकोनचत्वारिंशदधिकं मुहूर्तशतं (१३९)
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy