SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ६२.६७ चन्द्रशप्ति रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू. ३ द्वितीययुगसंवत्सरनिरूपणम् ३९५ एकोनविंशतिश्च मुहूर्ताः त्रिचत्वारिंशद् द्वाषष्टि भागाश्च । त्रय स्त्रिंशत्-चूर्णिकाः, पुष्यस्य शोधन मेतत् ॥३॥ एकोन चत्वारिंशं शतम् उत्तरफाल्गुनीनाम् एकोनषष्टे द्वे (शते) विशाखासु । चत्वारि नवोत्तराणि (शतानि) उत्तराषाढानां शोध्यानि ॥४॥ सर्वत्र पुष्पशेषं, शोध्यं अभिजितः चत्वारि एकोनविंशानि । द्वाषष्टिः षड् भागाः, द्वात्रिंशत् चूणिका भागाः ॥५॥ एकोनसप्ततानि पञ्च शतानि उत्तरभाद्रपदानां सप्त एकोन विशिनि । रोहिणी अष्ट नवोत्तराणि पुनर्वस्वन्ते शोध्यानि ॥६॥ अष्ट शतानि एकोन विंशानि, द्वाषष्टि भागाश्च भवन्ति चतुर्विशतिः । षट् षष्टिः सप्तषष्टि भागाः पुष्यस्य शोधनकम् ॥७॥ एतेषां क्रमेण संपतो व्याख्या-'तेत्तीसं च मुहुत्ता बिसट्ठिभागा य दो मुहुत्तस्स' त्रय स्त्रिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य द्वौ द्वाषष्टि भागौ तथा 'चुत्तीचुण्णिया भागा' एकस्य च द्वाषष्टि भागस्य चतुस्त्रिंशत् चूर्णिका भागाः ॥ ३३ २३ एष सर्वेष्वपि पर्वसु 'पव्वीकया' पर्वीकृतः एकेन पर्वणा निष्पादितः 'रिक्खधुवरासी' ऋक्षध्रुवराशिः-सूर्यनक्षत्रविषयोऽयं ध्रुवराशिः ॥१॥ एष ध्रुवराशिः कथमुपपद्यते ? इत्येतदाह-एष त्रैराशिकात समुपपद्यते, तथाहि-यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्चसूर्यनक्षत्रपर्याया लभ्यन्ते तदा एकेन पर्वणा कति पर्याया लभ्यन्ते ? इति त्रैराशिकं यथा -१२४।५।१। अत्रापि त्रैराशिकगणितरीत्या-अन्त्येन मध्यं गुणयित्वा आयेन भागहरणं भवतीति न्यायात् अन्त्येन एक रूपेण राशिना मध्यः पञ्चरूपो राशि र्गुण्यते जातस्तावानेव पञ्चरूपो राशिः (५) तत आयेन चतुर्विशत्यधिक शत रूपेण(१२४)भागो हियते किन्तु मध्यराशेः स्तोकत्वाद् भागो न लभ्यते ततो लब्धा एकस्य सूर्यनक्षत्रपर्यायस्य पञ्च चतुर्विशत्यधिकशतभागाः (१), एतान् नक्षत्रानयनार्थं त्रिंशदधिकाष्टादशशतैः (१८३०) सप्तषष्टि भागै गुणयिष्याम इति गुणकारच्छेदराश्योरर्धेनापवर्त्तना क्रियते जातो गुणकारराशिः पञ्चदशोत्तराणि नवशतानि (९१५) छेदराशि षिष्टिः (६२) ततः पञ्चदशोत्तर नवशत (९१५) रूपेण गुणकार राशिना पञ्च गुण्यन्ते, जातानि पञ्च सप्तत्युत्तराणि पञ्चचत्वारिंशच्छतानि (४५७५) एतानि मुहर्तानयनाथ त्रिंशता गुण्यन्ते, जातमेकं लक्षं, सप्तत्रिंशत्सहस्राणि, पञ्चाशदधिके द्वे शते च (१३७२५०), छेदराशि ा षष्टिरूपः सप्तषष्टया गुण्यते जातानि चतुष्पञ्चाशदधिकानि एक चत्वारिंशच्छतानि (४१५४) एभिरूपरितनराशेः (१३७२५०) भागो हियते, लन्धास्त्रयस्त्रिशन्मुहूर्ताः (३२)शेषम्-अष्ट षष्टयधिकमेकं शतं (१६८) तिष्ठति, एष राशि षष्टि भागानमनाथ
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy