SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ चन्द्रामिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू. ३ द्वितीययुगसंवत्सरनिरूपणम् ३९१ गुणाकारराशि स्त्रिंशत् [३०] सजातनिकरूपः [३] छेदराशिर्दशोत्तरशतत्रयरूपः [३१०] स जात एकत्रिंशत् (३१) तत्र त्रिकरूपेण गुणकारराशिना उपरितनः सप्तनवत्यधिकशतद्वयरूपो [२९७] राशिर्गुण्यते जातानि-एकनवत्यधिकानि अष्टौ शतानि [८९१] एषामेकत्रिंशद्रूपेण (३१) छेदराशिना भागो हियते, लब्धा अष्टाविंशति मूहूर्ताः, एकस्य च मुहूर्तस्य त्रयोविंशति रेकत्रिंशद्भागाः (२८-२३) तत आगतम्-प्रथमं पर्व अश्लेषानक्षत्रस्य पञ्च दिवसानां, एकस्य च दिव सस्याष्टाविंशति मुहूर्तानाम्, एकस्य च मुहूर्तस्य त्रयोविंशत्येकत्रिंशद्भागानां [दि. मु. भा. - ५-२८--२३] भोगं कृत्वा समाप्तं भवतीति । अथवा---पूर्वोक्तगणितगतत्रैराशिकमध्यस्थितपश्चकराशौ (५) पञ्चदशोत्तरनवशत (९१५) राशिना गुणिते समागतो यः पञ्चसप्तत्यधिक पञ्च चत्वारिंशच्छत (४५७५) रूपो राशिः तस्मात्-दाषष्टि गुणित चतुश्चत्वारिंशत्पुष्यभाग (४४) समागताष्टाविंशत्यधिक सप्तविंशति (२७२८) राशिरूपे पुष्ये शुद्धे स्थितानि पश्चात् सप्तचत्वारिंशदधिकानि अष्टादशशतानि (१८४७) तानि सूर्यमूह नयनाय त्रिंशता गुण्यन्ते जातानि-पञ्च पञ्चाशत् सहस्राणि चत्वारिशतानि दशोरत्ताणि (५५४१०) एषां प्रागुक्तेन सप्तषष्टि गुणितद्वाषष्टि समागत-चतुष्पञ्चाशददिकैक चत्वारिंशच्छत (४१५४) रूपेण छेदराशिना भागो हियते, लब्धास्त्रयोदश (१३) मुहर्ताः तिष्ठन्ति शोषाणि अष्टोत्तर चतुर्दशशतानि (१४०८) तत एतानि द्वाषष्टि भागानयनार्थ द्वाषष्टया गुणयितव्यानि भवन्तीति गुणकारछेदराश्यो षिष्टयाऽपवर्त्तना कर्तव्या तत्र गुणकारराशिषिष्टिस्ततस्तस्या द्वाषष्टया अपवर्तना करणे लब्ध एककरूपः (१) छेदराशेश्चतुष्पञ्चाशदधिकैकचत्वारिंशच्छत (४१५४) रूपस्य द्वाषष्टयाऽपवर्तना करणे जाता सप्तषष्टिः (६७) तत्र द्वाषष्टयाऽपतितैकक रूपेण गुणकारराशिना गुणितः अष्टोत्तरचतुर्दशशत (१४०८) रूपो राशिर्जातस्तावानेव (१४०८) । ततोऽपवर्तितेन सप्तषष्टि (६७) रूपेण छेदराशिना छेद्यते--भागो हियते इत्यथैः, हृते च भागे लब्धा एकविंशतिः २१ द्वाषष्टि भागा एकस्व मुहूत्तैस्य यश्वशेष एकः, स एकस्य द्वापष्टि भागस्य एकः सप्तषष्टिभागः (१३-- २ )। तत एवं समागतम् युगस्यादौ प्रथमम् अमावास्यारूपं पर्वसूर्योऽश्लेषानक्षत्रस्य त्रयोदश मुहूर्तान् एकस्य च मुहूर्तस्य एक विशतिषिष्टि भागान् एकस्य च द्वाषष्टि भागस्य एक सप्तषष्टि भागम् (१३-१)भुक्त्वा समापयतीति । ६२/६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy