SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे ____'अट्ठारसयसएहिं तीसेहिं' अष्टादशकशतस्त्रिंशदधिकैः (१८३०) 'सेसगंमि गुणियम्मि' शेषके भागे हते यत् शेषमवतिष्ठते तस्मिन् गुणिते सति 'सत्तावीस सएसुं अट्ठावीसेसु' अष्टाविंशत्यधिकेषु सप्तविंशतिशतेषु (२७२८) शुद्धेषु 'पूसंमि' पुष्यः शुद्धचति, तस्मिंश्च पुष्ये शुद्धे ॥२॥ 'सत्तह बिसहीणं सव्वग्गेण' सप्तषष्टि संख्यकद्वाषष्टीनां सर्वाग्रेण यद् भवति, अयं भावः-सप्तषष्ट्या द्वाषष्टिगुण्यते गुणितायां च तस्यां यद् भवति चतुष्पञ्चाशदधिकानि एकचत्वारिंशच्छतानि (१४५४) तेन भागे हूते यो राशिलब्धः तावन्ति नक्षत्राणि शुद्धानि ज्ञातव्यानि यत्पुनः 'तो उ' ततोऽपि भागहरणादपि 'जं सेस' यत् शेषं तिष्ठति 'तं रिक्खं उ' तत् ऋक्ष नक्ष तु 'सूरस्स' सूरस्य सूर्यस्य सम्बन्धि ज्ञातव्यम्, किमित्याह-'जत्थ समत्तं हवइ पव्वं' यत्र समाप्त भवति पर्व, तदेव सूर्यनक्षत्रं पर्व समापकं भवतीति-भावः । इति करण गाथात्रयार्थः ॥३।। आसां भावना चेन्थम् यदि चतुर्विशत्यथिकशतसंख्यकैः पर्वभिः पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तदा एकेन पर्वणा कति लभ्यन्ते ? त्रैराशिकं गणितं कर्तव्यं भवेत् राशित्रयस्थापना-। १२४।५।१। अत्र त्रैराशिक गणितेऽन्त्येन राशिना मध्यमराशिगुणयित्वा आयेन राशिना भागो हरणीय इति नियमात् अन्त्यराशिना एककरूपेण मध्यमे राशौ पञ्चरूपे गुणिते जातस्तावानेव पञ्चक रूपों राशिः (५) अस्य आधेन राशिना चतुर्विशत्यधिक शत [१२४] रूपेण भागहरणं प्राप्यते, तच्च स्तोकत्वान्न संभवति, ततो नक्षत्रानयनार्थम् - त्रिंशदधिकाष्टादशशतै [१८३०] सप्तषष्टिभागैर्गुणयिष्याम इति तदर्थ गुणकार-छेदराश्योरर्द्धनापवर्त्तना कर्तव्या, एवं कृते जातो गुणकारराशिः पञ्चदशोत्तरनवशतसंख्यकः [९१५] छेदराशिः द्वाषष्टिः [६२] ततो ये त्रैराशिके मध्यस्थिताः पञ्च ते पञ्चदशोत्तरैनव शतै गुण्यन्ते जातानि पञ्च सप्तत्यधिकानि पञ्चचत्वारिंशच्छतानि [४५७५] । इतश्च पुष्यस्य चतुश्चत्वारिंशद् [४४] भागाः द्वाषष्ट्या [६२] गुण्यन्ते जातानि अष्टाविंशत्यधिकानि सप्तविंशतिशतानि [२७२८] एतानि पूर्वराशेः [४५७५] शोध्यन्ते, निष्कास्यन्ते, स्थितानि पश्चात् सप्तचत्वारिंशदधिकानि अष्टादशशतानि [१८४७] । तत्र छेदराशिषिष्टिरूपः सप्तषष्टया गुण्यते, जातानि चतुप्पञ्चाशदधिकानि एक चत्वारिंशच्छतानि [४१५४] एभिः पूर्वोक्तराशेर्भागो हियते किन्तु छेद्यराशिः स्तोकः, अतस्तस्य स्तोकत्वाद् भागो न हियते ततो दिवसा आनेतव्याः, तत्र च छेदराशिस्तु द्वाषष्टिरूपः, किन्तु परिपूर्ण नक्षत्रानयनार्थमेव हि द्वाषष्टिः सप्तष्टया गुणिता, परिपूर्ण च नक्षत्र मिदानीं नायाति ततो मूल एव द्वाषष्टि रूपश्छेदराशिः, केवलं पञ्चभिः सप्तष्टि भागैरहोरात्रो भवतीत्यतो दिवसानयनार्थ द्वाषष्टिः पञ्चभिर्गुणनीयः, द्वाषष्टेः पञ्च भिर्गुणने जातानि दशोत्तसणि त्रीणि शतानि [३१०] एतैः पूर्वोक्तस्य सप्तचत्वारिंशदधिकाष्टादशशतराशेः [१८४,] भागो हरणीयः हृते च भागे लब्धाः पञ्च दिवसाः[५] शेषं तिष्ठति सप्तनवत्यधिके द्वे शते [२९७] इति । एष राशि मुहूर्तान यनार्थ त्रिंशता गुण्यते तत्र गुणाकार छेदराश्योः शून्येनापवर्त्तना कर्त्तव्या, तत्र
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy