SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू. ३ द्वितीययुगसंवत्सरनिरूपणम् ३८९ जाता भूयोऽपि षष्टिरेवेति समागतं यत् - चतुर्थ पर्व सर्वाभ्यन्तरमण्डलमादि कृत्वा षष्टितमे मण्डले समाप्तिमुपगच्छतीति ॥४। " एवं पञ्चविंशतितमपर्वविषये प्रश्ने पञ्चविंशतिधिर्यते सा पञ्चदशभिर्गुण्यते जातान पञ्चसप्तत्यधिकानि त्रीणि शतानि ( ३७५) । अत्र षड् अवमरात्रा जायन्ते इति पूर्वोक्तराशेः (३७५) षट्शोध्यन्ते, तिष्ठन्ति शेषाणि एकोनसप्तत्यधिकानि त्रीणि शतानि (३६९) एषां त्र्यशीत्यधिकशतेन (१८३) भागो हियते लब्धौ द्वौ (२) पश्चात्तिष्ठन्ति त्रीणि तानि रूपयुक्तानि क्रियन्ते जातानि चत्वारि, यौ च द्वौ लब्धाङ्कौ, तेन द्वे अयने दक्षिणायनोत्तरायणरूपे शुद्धे, तत आयातं - तृतीये दक्षिणायनरूपेऽयने सर्वाभ्यन्तरमण्डलमादि कृत्वा चतुर्थे मण्डले पञ्चविंशतितमं पर्व समाप्तं भवतीति |२५| अथ चतुर्विंशत्यधिकशततमपर्वविषयः प्रश्नो भवेत्तदा चतुर्विशत्यधिकशसंख्यको राशिः (१२४) स्थाप्यते, एषोऽपि पूर्ववत् पञ्चदशभिर्गुण्यते, जातानि - षष्ट्यधिकानि अष्टादशशतानि (१८६०) चतुर्विंशत्यधिक पर्वशते च अवमरात्रास्त्रिराज्जाताः (३०) इति त्रिंशत्पात्यते, जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०), एतेषु रूपयुक्तेषु कृतेषु जातानि - एकत्रिंशदधिकानि अष्टादशशतानि (१८३९) एषां त्र्यशीत्यधिकशतेन (१९८३) भागो ह्रियते लब्धानि दशायनानि, शेषोऽवतिष्ठते एकः (१) दशमं चायनं युगपर्यन्तभागे उत्तरायणम्, ततः संप्राप्तम् - उत्तरायणपर्यन्ते सर्वाभ्यन्तरे मण्डले चतुर्विंशत्यधिकशततमं (१-२४) पर्वसमाप्ति प्राप्तमिति (१२४) । गतं पर्व समापकसूर्यमण्डलप्रकरणम्, साम्प्रतं पर्वसमापक सूर्यनक्षत्रप्रकरणं प्रस्तूयते, तत्र, पूर्वं तत्प्रदर्शिकास्तिस्रः करेणगाथा: प्रदश्यते— "चउबीससयं काऊण पमाण पज्ज य पंच फलं । इच्छापव्वेहिं गुणं काऊणं पज्जया लद्धा ॥ १॥ अट्ठारस य सहिं, सेसगंमि गुणियम्मि । सत्तावीससएसुं, अट्ठावी सेसु पूसम्मि । ang बिसणं सव्वग्गेण तओ उ जं. सेसं । रिक्खं सूरस्स उ, जत्थ समत्तं हवइ पव्वं ॥ ३॥ 'एतासां तिसृणां करणगाथानां क्रमशो व्याख्या क्रियते चउवीससयं काऊण पमाणं' चतुर्विंशतिशतं चतुर्विंशतिशतप्रमितं प्रमाणं प्रमाणराशिं कृत्वा 'पज्जए य पंच' पञ्च पर्यायान् ‘फलं’फलं कुर्यात् । ततः ‘इच्छापव्वेहिं गुणं काऊण' इच्छापर्वभिः ईप्सितपर्वराशिना गुणं गुणका रं कृत्वा तत आद्येन राशिना चतुर्विंशत्यधिकशतरूपेण भागे हृते ये लब्धास्ते 'पज्जाया लड़ा' पर्याया लब्धा इति विज्ञेयम् । ते च शुद्धा ज्ञातव्याः || १ ||
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy