SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिस्त्र अथ सूर्य मण्डलान्याश्रित्य पर्व समाप्तिर्विचार्यते, यथा-कस्मिन् सूर्यमण्डले किं पर्वसमा प्तिमेतीति, अनापि करणगाथामाह__"सूरस्स वि नायव्वो, सगेण अयरेण मंडलविभागो। 'अयणम्मि उ जे दिवसा, रूवहिए मंडले हबइ ॥१॥ छाया--सूरस्यापि ज्ञातव्यः, स्वकेन अयनेन मण्डलविभागः । अयने तु ये दिवसाः रूपाधिके मण्डले भवति ॥१॥ इति अस्य व्याख्या-'मूरस्सवि' सूर्यस्यापि 'मंडलविभामे' पर्वविषयो मण्डलविभागः 'नायव्यो' ज्ञातव्यः, कथम् ! 'सगेण अयणेण' स्वकेन अयनेन, सूर्यसम्बन्धिनाऽयनेन ज्ञातव्य इति । अयं भावः-सूर्यस्य स्वकीयमयनमपेक्ष्य तस्मिन् तस्मिन् मण्डले तस्य तस्य पर्वणः समाप्तिरवधायति । तत्र 'अयणम्मि' अयने तु शोधिते सति 'जे दिवसा' ये दिवसाः शेषा उद्धरिताः अयनशोधनानन्तरं येऽवशिष्टा दिवसा स्तिष्ठन्ति तत्संख्यके 'रूवाहिए मंडले' रूपाधिके-एककरूपसहिते मण्डले 'हवइ' भवति तदीप्सितं पूर्व समाप्तं भवतीति विज्ञातव्यम् ॥ एष करणगाथासंक्षेपार्थः ॥१॥ बिस्तरार्थस्तु भावनया वेदितव्यः, सा चेत्थम्-इह यत्-अमुकं पर्व कस्मिन् मण्डले समाप्तं भवतीति ज्ञातुमिच्छेत् तदा ईप्सितपर्वसंख्या स्थाप्यते सा च पञ्चदशभिर्गुणयेत् गुणिता सा संख्या एकरूपाधिका कर्त्तव्या, ततः तदाशितः संभवतोऽवमरात्रा पात्यन्ते, ततो यदि सा संख्या त्र्यशीत्यधिकशतेन भागहरणीया भवेत् तर्हि तस्यास्त्र्यशीत्यधिकशतेन भागो हियते, हृते च भागे यानि लब्धानि तान्ययनानि ज्ञातव्यानि, भागावशिष्टा या दिवस संख्याऽवतिष्ठते तस्या अन्तिमे मण्डले यद् विवक्षित तत् पर्व समाप्तं भवतीत्यवधारणीयम् । तत्र यदि उत्तरायणं वर्तते तदा सर्वबाह्य मण्डलमादित्येन कर्तव्यम्, उत्तरायणे सर्वबाह्यं मण्डलमादिर्भवतीति भावः, यदि दक्षिणायनं वर्तते तदा सर्वाभ्यन्तरं मण्डलमादित्वेन विज्ञेयम्, दक्षिणायने सर्वाभ्यन्तरं मण्डलमादिर्भवतीति भावः । इति पर्वसमाप्त्यानयनप्रकारः प्रदर्शितः, अथ तदेव सोदाहरणं परिभाव्यते तथाहि यथा कोऽपि पृच्छेत्-युगे प्रथमं पर्व सूर्यस्य कस्मिन् मण्डले समाप्तं भवतीति । अत्र प्रथम पर्वविषयकः प्रश्न-इति-एककः (१) स्थाप्यते, स पञ्चदशभिर्गुण्यते जाताः पञ्चदश (१५) अत्रैकोऽप्यवमरात्रो न संभवतीति न किमपि पात्यते, स्थिताः पञ्चदशैव (१५) ते च पञ्चदशरूपाधिकाः क्रियन्ते जाताः षोडश १६ युगादौ च प्रथमं पर्व दक्षिणायने भवतीत्यत आगतम्-युगे प्रथम मण्डलं सर्वाभ्यन्तरमण्डलमादि कृत्वा षोडशे मण्डले समाप्तं जातमिति ॥१॥ ___ अथ कोऽपि पृच्छेत्-चतुर्थं पर्व कस्मिन् मण्डले परिसमाप्तिमेतीति । तत्र चतुर्थपर्वविषयकः प्रश्नः कृत इति चतुष्काऽङ्कः स्थाप्यते (४) सच पञ्चदशभिर्गुण्यते जाता षष्टिः, ६० अत्रैकोऽव. मरात्रः संभवतीत्येकोऽस्माद्राशेः पात्यते जाता एकोनषष्टि ५९ सा पुनरेकरूपयुक्ता क्रियते
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy