SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू. ३. द्वितययुगसंवत्सरस्वनिरूपणम् ३८७ श्रवणः १३ । चतुर्दशस्य पितृदेवा:- पितृदेवतोपलक्षिता मघा १४ । पञ्चदशस्याजःअजदेवतोपलक्षिताः पूर्वभाद्रपदाः १५ षोडशस्यार्यमा अर्यमदेवतोपलक्षिना उत्तरफाल्गुन्यः १६, सप्तदशस्य अभिवृद्धिः - अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदा १७ । अष्टादशस्य चित्रा १८ । एकोनविंशतितमस्याश्वः अश्वदेवतोपलक्षिता-अश्विनी १९ | विंशतितमस्य विशाखा २० एकविंशतितमस्य रोहिणी २१ द्वाविंशतितमस्य मूलः २२ । त्रयोविंशतितमस्यार्द्रा २३ । चतुर्विंशतितमस्य विष्वकू - विष्वग् देवतोपलक्षिता उत्तराषाढा २४ । पञ्चविंशतितमस्य पुष्यः २५ । षड्विंशतितम भगः धनिष्ठा २६ । सप्तविंशतितमस्य भगः- भगदेवतोपलक्षिताः पूर्वाफाल्गुन्यः २७ . अष्टा विंशतितमस्याजः - अज देवतोपलक्षिताः पूर्वभाद्रपदाः २८ एकोनत्रिंशत्तमस्यार्यमा अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः २९ त्रिंशत्तमस्य पुष्यः पुष्यदेवतोपलक्षिता रेवती ३० । एकत्रिंशत्तमस्य स्वातिः ३१ । द्वात्रिंशत्तमस्याग्निः - अग्निदेवतोपलक्षिताः कृत्तिकाः ३२ । त्रयस्त्रिंशत्तमस्य मित्रदेवामित्रनाम देवतोपलक्षिता - अनुराधा ३३ । चतुस्त्रिंशत्तमस्य रोहिणी ३४ । पञ्चत्रिंशत्तमस्य पूर्वाषाढा ३५ । षट्त्रिंशत्तमस्य पुनर्वसुः ३६ सप्तत्रिंशत्तमस्य विष्वग्देवाः - विष्वग्देवतोपलक्षिता उत्तराषाढा : ३७ । अष्टत्रिंशत्तमस्याहि :- अहि देवतोपलक्षिता अश्लेषा ३८ । एकोनचत्वारिंशत्तमस्य वसुः- वसुदेवतोपलक्षिता घनिष्ठा ३९ । चत्वारिंशत्तमस्य भगदेवतोपलक्षिताः पूर्वाफाल्गुन्यः ४० । एकचत्वारिंशत्तमस्याभिवृद्धिः - अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदाः ४१ । द्वाचत्वारिंशत्तमस्य हस्तः ४२ । त्रिचत्वारिंशत्तमस्याश्वः - अश्वदेवतो - पलक्षिता - अश्विनी ४३ | चतुश्चत्वारिंशत्तमस्य विशाखा ४४ । पञ्चचत्वारिंशत्तमस्य कृत्तिका ४५ ॥ षट्चत्वारिंशत्तमस्य ज्येष्ठा ४६ । सप्तचत्वारिंशत्तमस्य सोमः- सोमदेवतोपलक्षितं मृगशिरा ४७ । अष्टचत्वारिंशत्तमस्यायुः - आयुर्देवतोपलक्षिताः पूर्वाषाढा : ४८ । एकोनपञ्चाशत्तमस्य रविः - रविनामक देवतोपलक्षिता पुनर्वसुः ४९ । पञ्चाशत्तमस्य श्रवणः ५० । एक पञ्चाशत्तस्य पिता- पितृ देवतोपलक्षिता मघा ५१ द्विपञ्चाशत्तमस्य वरुणः- वरुणदेवतोपलक्षितं शतभिषँक् ५२ त्रिपञ्चाशत्तमस्य भगः - भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः ५३ । चतुष्पञ्चाशत्तमस्या भिवृद्धिः - अभिवृद्धि देवतोपलक्षिता उत्तरभाद्रपदा : ५४ । पञ्च पञ्चाशत्तमस्य चित्रा ५५ । षट्पञ्चाशत्तमस्याश्वः-अश्व देवतोपलक्षिता - अश्विनी ५६ । सप्तपञ्चाशत्तमस्य विशाखा ५७ । अष्ट पञ्चाशत्तमस्याग्निः - अग्निदेवतोपलक्षिताः कृत्तिकाः ५८ । एकोनषष्टितमस्य मूलम् ५९ । षष्टितमस्य आर्द्रा ६० एकषष्टितमस्य विष्वक्- विश्वग्देवतोपलक्षिता उत्तराषाढा ः ६१ । द्वाषष्टितमस्य पुष्यः ६२ । उपसंहरन्नाह - 'एए' इत्यादि, 'एए' एतानि पूर्वोक्तानि 'नक्खत्ता' नक्षत्राणि द्विषष्टि संख्यकानि जुगपुव्वद्धे' युगपूर्वार्द्ध युगस्याद्धे पूर्वभागे 'बिसहि पब्वे ' द्विषष्टि पर्वसु क्रमेण ज्ञातव्यानि ||५|| इति गाथापञ्चकार्थः ॥ एवमेव प्रागुक्तकरणवशा दुत्तरार्धेऽपि द्वाषष्टि संख्यकेषु पर्वसु एतान्येवानेनैव क्रमेण नक्षत्राणि वेदितव्यानि ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy