SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३९२ चन्द्रप्राप्ति ___ अथ च यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तर्हि द्वाभ्यां पर्वाभ्यां कति सूर्यनक्षत्रपर्याया लभ्यन्ते १। अत्रापि राशित्रयस्थापना-। १२४।५।२। पूर्वोक्तरीत्याऽत्रापि अन्त्येन राशिना द्विकरूपेण मध्यराशिः पञ्चकरूपो गुण्यते, जाता दश (१०) एषां चतुर्विशत्यधिकैकशतरूपेण आय राशिना भागहरणं प्राप्यते किन्तु भाजक राशे र्भाग्यराशिः स्तोकोऽतो भागो न हियते ततो नक्षत्रानयनार्थं त्रिंशदधिकाष्टादशशत (१८३०) संख्यया गुणयितव्यमिति गुणकारच्छेदराश्योरर्धेनाऽपवर्त्तना क्रियते, जातोऽयं गुणकारराशिः पञ्चदशोत्तरनवशतसंख्यक (९१५) छेदराशिश्चतुर्विशत्यधिकशत (१२४) रूपः, सोऽर्धेनापवर्त्तिते जातो द्वाषष्टिः (६२) तत्र पञ्चदशोत्तरनवशतैः (९१५) दश (१०) गुण्यन्ते जातानि पञ्चाशदधिकानि एक नवतिशतानि (९१५०), एभ्यः पूर्वपदर्शितानि अष्टाविंशत्यधिकानि सप्तविंशतिशतानि (२०२८) पुष्यसम्बन्धीनि शोध्यन्ते, शोधिते च स्थितानि पश्चात्-द्वाविंशत्यधिकानि चतुष्पष्टिशतानि (६४२२) छेदराशिषिष्टिरूपः, स सप्तषष्टया गुण्यते जातानि चतुष्पञ्चाशदधिकानि एक चत्वारिंशच्छतानि (४१५४) एतैर्भागो हियते, लब्धमेकं नक्षत्रम् अश्लेषारूपम् , तच्चाश्लेषानक्षत्रमर्षक्षेत्रं पञ्चदश मुहूर्तात्मकत्वात् , अत एतद्गताः पञ्चदश मुहूर्ता अधिका ज्ञातव्याः, पूर्व भागे हते यानि शेषाणि तिष्ठन्ति-अष्टषष्टयधिकानि द्वाविंशति शतानि (२२६८) तानि मुहूर्तानयनार्थ त्रिंशता गुण्यन्ते जातानि-अष्टषष्टिः सहस्राणि चत्वारिंशदधिकानि (६८०४०) तेषां चतुष्पञ्चाशदधिकैकचत्वारिंशच्छत (४१५४) रूपेण छेदराशिना भागो हियते, लब्धाः षोडश मुहूर्ताः, तिष्ठन्ति शेषाणि षट्सप्तत्यधिकानि पञ्चदशशतानि (१५७६) एतानि द्वाषष्टि भागानयनार्थ द्वाषष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्योषष्टयाऽपवर्त्तना क्रियते, तेन जातो गुणकारराशिरेकरूपः (१) छेदराशिः सप्तषष्टिः (६७) तत्रोपरितनो राशिः राशिः (१५७६) एकेन गुणितो जातस्तावानेव (१५७६) अस्य सप्तषष्टया भागे हृते लब्धास्त्रयोविंशति षिष्टि भागाः (२३) शेषास्तिष्ठन्ति पञ्चत्रिंशत् , ते च पञ्चत्रिंशत् सप्तषष्टि भागाः (३५) तत्र ये षोडश मुहूर्त्ता लब्धास्ते, तथा ये चोद्धरिताः पाश्चात्याः पञ्चदशमुहूर्तास्ते एकत्र मील्यन्ते जात एकत्रिंशत् (३१) तत्र त्रिंशता मधा शुद्धा, पश्चादुद्धरत्येकः सूर्यमुहूर्तः १, तत आगतं श्रावणमासभावि पौर्णमासीरूपं पूर्वफाल्गुनी नक्षत्रस्यैकं मुहर्तम् एकस्य च मुहूर्तस्य त्रयोविंशतिं द्वाषष्टि भागान, एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टि भागान् (१-) भुक्वा सूर्यो द्वितीय पर्व समापयतीति । तथा चोक्तं शेषमुहूर्तविषये "ता पुव्वाहि फग्गुणीहिं पुव्वाणं फग्गुणीणं अट्ठावीस च मुहुत्ता अत्तीसं च वासद्विभागा मुहुत्तस्स बासद्विभागं च सत्तट्टिहा छेत्ता बत्तीस चुणिया भागा सेसा" छाया तावत् पूर्वाभिः फाल्गुनीभिः पूर्वाणां फाल्गुनीनां अष्टाविंशति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy