SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ६२६७ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू. ३. द्वितीययुगसंवत्सरनिरूपणम् ३८५ द्वाषष्टिभागान्, एकस्य च द्वाषष्टिभागस्य एकसप्तषष्टिमार्ग--(१३-२१२- ) भुक्त्वा समाप्तिमुपगतमिति । एवम्-अश्लेषानक्षत्रस्य एतावत्परिमित मुहूर्त्तादि प्रमाणे चन्द्रेण सह योगे समाप्ते सति प्रथमं पर्व समाप्तिमेतीति ज्ञातव्यम् १।। अथ यदि चतुर्विंशत्यधिकेन पर्वशतेन (१२४) सप्तषष्टिः पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किवल्लभ्यते, एतदपि त्रैराशिकं गणितं जायते, तथाहि राशित्रयस्थापना- । १२४ । ६७ । २। अत्रापि अन्त्येन राशिना मध्यमो राशिर्गुण्यते, जातं चतुस्त्रिंशदधिकं शतमेकम् (१३४), वस्व आयेन चतुर्विंशत्यधिकशतरूपेण राशिना भागो हियते, लब्ध एको नक्षत्रपर्यायः, शेषा स्थिताः दश, तत एते नक्षत्रानयनार्थ त्रिंशदधिकैरष्टादशशतैः (१८३०) सप्तषष्टिभागै र्गुणयिसम्बा भवन्तीत्यत्रापि गुणाकारच्छेदराश्योरर्धेनापवर्तना कर्त्तव्या, तेन जातो गुणकारराशिः पञ्चादशोत्तराणि नवशतानि (९१५) छेदराशिश्च द्वाषष्टि (६२) भवति । तत्र दशरूपो राशिः पञ्चादशोत्तरैर्नवभिः शतैः (९१५) गुण्यते, जातानि पञ्चाशदधिकानि एक नवतिशतानि (९१५०)। एभ्यो दयुत्तराणि त्रयोदशशतानि (१३०२) अभिजिन्नक्षत्रस्य शोध्यानि, शोधिते च स्थितानि शेषाणि अष्टचत्वारिंशदधिकानि अष्टसप्ततिशतानि (७८४८)। तत्र द्वाषष्टिरूपश्चेदराशिः सप्तषष्टया गुण्यते, जातानि चतुष्पश्चाशदधिकानि एकचत्वरिंशच्छतानि (४१५४) एतैर्भागो हियते, लब्धमेकं नक्षत्रं. श्रवणरूपम्, शेषाणि यानि चतुर्नवत्यधिकानि षट् त्रिंशच्छतानि (३६९४) तिष्ठन्ति तानि मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातम्-एक लक्षं, दशसहस्राणि, अष्टौ शतानि विंशत्युत्तराणि (११०८२०,) एषां छेदराशिना भागो हियते, हृते च भागे लब्धाः षड्विंशतिर्मुहूर्ताः २६ , शेषाणि यानि षोडशोत्तराणि अष्टाविंशतिशतानि (२८१६) तिष्ठन्ति तानि द्वाषष्टिभागानयनार्थ द्वाषष्टय गुणनीयानीति गुणकारछेदराश्यो षिष्टयाऽपवर्तना कर्त्तव्या, तेन जातो गुणकारराशिरेककरूपः (१) छेदराशिश्च सप्तषष्टिः । तत्रैकेन गुणित उपरितनो राशिः षोडशोत्तराष्टाविंशतिशतरूपो जातस्तावानेव (२८१६), अस्य सप्तषष्ट्या भागे हते लब्धा द्वाचत्वारिंशत् (४२) द्वाषष्टिभागाः, शेषौ स्थितौ द्वौ तौ च एकस्य द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ, तत आगतम् द्वितीय पर्व धनिष्ठानक्षत्रस्य षड्विंशतिं मुहूर्तान् एकस्य च मुहूर्तस्य द्वि चत्वारिंशद् द्वाषष्टिभागान् , एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ (२६-0-) भुक्त्वा समाप्तिमुपयातीति । एवं धनिष्ठानक्षत्रस्य एतावत्परिमितमुहर्तादि प्रमाणे चन्द्रेण सह योगे समाप्ते सति द्वितीय पर्व परिसमाप्तिमुपगच्छतीति विज्ञातव्यम् । २। ___ एवं शेषेष्वपि युगार्धम् द्विषष्टिपर्यन्तेषु पर्वसु सर्वाणि पर्वसमाप्ति नक्षत्राणि भावनीयानि । तत्समाहिकाश्चेमा पञ्च गाथा:
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy