SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३८४ चन्द्रप्राप्तिसूत्रे अथ करणगाथानां भावमाश्रित्य गणितेन भावना क्रियते सा चेत्थम्--अत्र त्रैराशिकं यथा-यदि चतुर्विशत्यधिकेन पर्वशतेन (१२४) सप्तषष्टिः (६७) पर्याया लभ्यन्ते तदा एकेन (१) पर्वणा किं लभ्यते ? राशित्रयस्थापना । १२४६७।१। अत्रायं नियमः-अन्त्येन राशिना मध्यराशिं गुणयित्वा स आद्यराशिना विभाज्यः । एतन्नियमानुसारेण अन्त्येन एककरूपेण राशिना मध्यराशिः सप्तषष्टिरूपो गुण्यते, 'एकेन गुणितं तदेव भवति' इति न्यायात् जाता सप्तषष्टिरेव (६७) अस्य आयेन चतुर्विंशत्यधिकशतरूपेण (१२४) राशिना भागो हरणीयः, स च स्तोकत्वाद्भागो न हियते, ततो नक्षत्रानयनार्थम्-'अट्ठारसहिं सएहिं तीसेहिं गुणियम्मि' इति द्वितोयगाथोक्तवचनात् त्रिंशदधिकरष्टादशभिः शतैः (१८३०) सप्तषष्टिभागरूपैः सप्तषष्टे गुणकारः कर्तव्यो भवेत् , ततोऽङ्कानामाधिक्येन भूयमानत्वादर्धे नाऽपर्तनां कृत्वा गुणयितव्या सप्तषष्टिः, ततोऽस्य गुणकारराशेः (१८३०) चतुर्विंशत्यधिकशत (१२४) रूपस्य छेद राशेश्वार्द्धनापवर्तना कर्तव्या जातो गुणकारराशिः पञ्चदशोत्तराणि नवशतानि (९१५) छेदराशिश्च द्वाषष्टि संख्यो (६२) जातः, अथ सप्तषष्टिः पञ्चदशोत्तरनवशर्ते गुण्यते जातानि-एकषष्टिः सहस्राणि, त्रीणि शतानि पञ्चोत्तराणि (६१३०५) एतस्मादभिजिन्नक्षत्रस्य द्वयुत्तराणि त्रयोदश शताणि (१३०२) शुद्धानि, स्थितानि शेषाणि त्र्युत्तराणि षष्टिसहस्राणि (६०००३), अपवर्तनालब्धो द्वाषष्टिरूपः (६२) छेदराशिः सप्तषष्ट्या गुण्यते, जातानि चतुष्पञ्चाशदधिकानि एकचत्वारिंशच्छतानि (४१५४) तैर्भागो हियते लब्धाश्चतुर्दश (१४), तेन श्रवणादीनि पुष्य पर्यन्तानि चतुर्दशनक्षत्राणि शुद्धानि, यानि शेषाणि सप्तचत्वारिंशदधिकानि अष्टादशशतानि (१८४७) स्थितानि तानि मुहूर्तानयनाथै त्रिंशता गुणने जातानि-दशोत्तरचतुःशताधिकानि पञ्चपञ्चा. शत्सहस्राणि (५५४१०), एषां पुनश्चतुष्पञ्चाशदधिकैकचत्वारिंशच्छतैः (४१ ५४) भागो हियते लब्धास्त्रयोदश (१३) मुहूर्ताः, भागे हृते यानि अष्टोत्तराणि चतुर्दशशतानि (१४०८) शेषाणि तिष्ठन्ति । तानि द्वाषष्टि भागानयनाथ द्वाषष्टया गुणयितव्यानि भवन्ति, ततोऽधिकाङ्कानां स्वल्पाङ्ककरणार्थ गुणकारच्छेदराश्यो षिष्टयाऽपवर्तना क्रियते अपवर्तना अपर्कषः द्वाष्टया भागं हृत्वा लब्धाङ्करूपः स्वल्पाको राशिः क्रियते इति भावः, एवं कृते गुणकारराशे षष्टे षष्ट्या भागे हृते एककरूपो लब्धः, एवं चतुष्पञ्चाशदधिकैकचत्वा रिंशच्छतरूपस्य (४१५४) राशे षष्टयाऽपवर्तिते भागे हृते इत्यर्थः छेदराशि सप्तषष्टिरूपो लब्धस्तेन गुणकार राशिरेककः (१) छेदराशिः सप्तषष्टिरूपो लब्धस्तेन गुणकार राशिरेककः (१) छेदराशिः सप्तषष्टि (६७) जातः तत एककेन गुणकारराशिना गुणितः उपरितनः अष्टोत्तरचतुर्दशशत (१४०८) रूपो राशि र्जातस्तावानेव (१४०८) अस्यापवर्तित सप्तषष्टया भागो ह्रियते, हृते च भागे लब्धा एकविंशतिः (२१) शेषस्तिष्ठत्येकः, स च एकस्य द्वाषष्ठिभागस्य एकः सप्तषष्टि भागोऽस्ति, तत आगतं यत् प्रथमं पर्व अश्लेषायास्त्रयोदश मुहूर्तान् , एकस्य च मुहूर्तस्य एकविंशति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy