SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३७८ चन्द्रप्राप्तिसूत्रे मण्डलानि शुद्धयन्ति राशिश्च पश्चान्निर्लेपो जायते तदा तदयनसंख्यानं निरंशं सद् रूपयुक्तं नास्ति, तत्र निरंशेऽयनराशौ रूपं न प्रक्षिप्यते इति भावः ॥२॥ 'कसिणं मि' इत्यादि 'कसिणंमि' कृत्स्ने परिपूर्णे राशौ रूपप्रक्षेपो भवति मण्डलराशौ एकं रूपं प्रक्षेपणीयं भवती तिभावः । 'भिन्नंमि' भिन्ने खण्डे भिन्नराशौ अंश सहिते राशौ सति मण्डलराशौ 'दो य होंति' द्वे रूपे प्रक्षेपणीये भवतः । प्रक्षेपेच कृते सति 'जावइया' इति यावन्ति मण्डलानि भवन्ति, यावान् मण्डल राशिर्भवतीत्यर्थः 'तावइया' तावन्ति एत नि राशिमण्डलानि इच्छिते पर्वणि भवन्ति ॥३॥ तथा 'ओयंमि उ' इत्यादि, 'ओयंमि गुणका' ओजसि विषभे गुणकारे सति, यदि इच्छितेन पर्वणा ओजो रूपेण विषमलक्षणेन गुणकारी भवेत्तदा 'अन्भितरमंडले हवइ आई' अभ्यन्तरमण्डले आदिष्टव्यः । अथ च 'जुग्गंमि य गुणाकारे' युग्मे चेति समसंख्यके गुणकारे सति, यदि इच्छितेन पर्वणा समलक्षणेन समसंख्यकपर्वणा गुणकारो भवेत्तदा 'बाहिरगे मंडले आई'-बाह्ये मण्डले आदिर्विज्ञेयः ॥४॥ इतिकरणगाथाऽक्षरार्थः ॥ अथैतेषां भावनाप्रकारः प्रदर्श्यते-अथ कोऽपि च्छेत् यत् युगादौ प्रथमं पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमेति ? तत्र प्रथमं पर्व पृष्टमितिवामपार्श्व पर्वसूचक एकरूपोऽङ्कः स्थापनीयः, ततस्तयैव अनुश्रेणिदक्षिणपार्श्वे जयनसूचक एककः स्थाप्यते, तस्य चानु श्रेणि मण्डलसूचक एककः स्थापनीयः, तस्य मण्डलस्य चाधस्तात् चत्वारः सप्तषष्टि भागाः स्थायाः तेषामायधस्तात् नव एकत्रिंशद्भागाः स्थापनीयाः यथा-(. पर्व, अयनं मण्डलम् १-४ ९ - एष पर्वोऽपि ध्रुव राशि रस्ति तत एक संख्यकमयनमेन इच्छितेन पर्वणा गुण्यते जातमेकमेव, ३१ ततः 'अयणं रूवाहियं च कायव्वं' इति वचनात् एकक लक्षणेऽयनराशौ एकं रूपं प्रक्षिप्यते जातं द्विकम्, एतच्च एककलक्षणात् मण्डलराशेर्न शुद्धः ति ततः 'दोयहोति भिन्नमि' इति वचनात् भिन्ने खण्डे मण्डलराशौ वेरूपे प्रक्षिप्यते जातो म डलराशिस्निकरूपः तदेव मागतं प्रथम पर्व(२ अयनं ३ तृतीय-मण्डलस्य ( ) द्वितीयेऽयने, तृतीयस्य मण्डलस्य 'ओयंमि गुणकारे अभितरमंडले हवइ आई' ओजसि विषमे गुणकारे अभ्यन्तरमण्डले आदि भवतीति वचनात् अत्र एककरूप विषमाङ्कत्वेन अभ्यन्तरवर्तिनः अभ्यन्तरवत्तिं तृतीयमण्डलस्य चतुर्षु सप्तषष्टिभागेपु, एकस्य च सप्तपष्टि भागस्य नवसु एकत्रिंशद्भागेषु(२ अयने ३ तृतीयमण्डलस्य ।- गतेषु समाप्ति पुपैनोति । अयनंचात्र चन्द्रस्य विज्ञम् । तच्च चन्द्रायणं युगस्यादौ ३१
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy