SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू. ३ द्वितीयुगपत् निरूपणम् ३७७ छाया - इच्छापर्वभिर्गुणयित्वा अयनं रूपाधिकं तु कर्त्तव्यम् । शोध्यं च भवति अस्मात् अयनक्षेत्रं उडुपतेः ||१॥ यावन्ति अयनानि शुद्धयन्ति तावत्पर्वयुतानि तु रूपसंयुक्तानि । तावत्कं तद् अयनं नास्ति निरंशे रूपयुतम् ॥२॥ कृत्स्ने भवति रूप प्रक्षेपः द्वौ च भवतः भिन्ने । यावत्कानि तावत्कानि, एतानि शशिमण्डलानि भवन्ति ॥३॥ ओजसितु गुणकारे, अभ्यन्तरमण्डले भवति आदि: । युग्मे च गुणकारे अभ्यन्तरमण्डले भवति आदिः || ४ || आसां गाथानां क्रमेण संक्षेपतो व्याख्या क्रियते - 'इच्छापव्वे हिं' इच्छापर्वभिः यस्मिन् पर्वणि अयनमण्डलादि ज्ञातु मिच्छेत् तद् 'इच्छापव्वेहिं' स्वेच्छितपर्वभिः 'गुणेउं ' गुणयित्वा क्रिमिति ? ध्रुवराशिम् । अथ कोऽसौ ध्रुवराशिरिति ध्रुवराशिः प्रदर्श्यते - अत्र ध्रुवराशिप्रतिपादिका गाथा प्रोच्यते - "एगंच मंडल मंडलस्स सत्तट्ठभाग चत्तारि । नव चेव चुण्णियाओ, इगतिसकरण छेएन ॥ १ ॥ " अस्य छाया - एकं च मण्डलं मण्डलस्य सप्तषष्टि भागश्चत्वारः । नव 'चैत्र चूर्णिका भागाः, ऐकत्रिंशत्कृतेन छेदेन ॥१॥ इति । अस्या अयमर्थः - एकं मण्डलम् एकस्य च मण्डलस्य चत्वारः सप्तषष्टिभागाः, तथा ४ 의원 ६७३१ एकस्य च सप्तषष्टिभागस्य एकत्रिंशत्कृतेन छेदेन नव चूर्णिका भागाः (१ ) इति गाथार्थः । एतत्प्रमाणो ध्रुवराशिः स्थाप्यते । अयं च पर्वगतक्षेत्राद् अयनगतक्षेत्रस्यापगमे शेषी भूतो वर्त्तते । अस्योत्पत्तिरग्रे वक्ष्यते । तत एवम्भूतं ध्रुवराशि इच्छा पर्वभिः इच्छितपर्वभिर्गुणयित्वा तत्पश्चात् 'अयणं रूवाहियं तु कायव्वं' अयनं रूपाधिकं तुकर्त्तव्यम् एकं रूपमयने प्रक्षेपणीय मित्यर्थः । एवं गुणितस्य मण्डलराशे यदि चन्द्रस्यायनक्षेत्रंपरिपूर्णमधिकं वा संभाव्यते तदा 'सोज्झं च हवइ एत्तो' एतस्माद् इच्छितपर्वसंख्या गुणितात् मण्डलराशेः 'अयणक्खेत्तं उडुवइस्स' उडुपतेः चन्द्रस्यायनक्षेत्रं शोध्यं भवति ॥ १ ॥ ' जइ ' इत्यादि । 'ज' यावन्ति यावत्संख्यकानि अयनानि 'सुज्झंति' शुद्धयन्ति 'तइपव्वजुयाइ ' तावत्संख्यकपर्वयुतानि कृत्वा भूयः 'रूवसंजुत्ता' रूपयुक्तानि एकरूपयुक्तानि च अयनानि क्रियन्ते । एवं करणे यावत्कं भवति 'तावइयं तं अयणं' तावत्कमेव तदयनं विज्ञेयम् 'नत्थि निरंसंमि रूव जुयं नास्ति निरंशे रूपयुक्तं तत्कर्त्तव्यम् । यदि पुनः परिपूर्णानि ४८
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy