________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० । संवत्सरस्वरूपनिरूपणम् ३७५ वत्सरस्य त्रिंशन्मासातिक्रमे एकोऽधिकमासः । अत्रान्याऽपि सरला रीतिः प्रदर्श्यते-सार्धत्रिंशदिनप्रमाणात्सूर्यमासात् द्वात्रिंशद् द्वापष्टि भागसहितानि एकोनविंशदिनानि, चान्द्रामासस्य शोध्यन्ते स्थितमेकं दिनमेकेन द्वाषष्टिभागेन न्यूनं, तच्च एक षष्टि षिष्टिभागाः (4) एतावत्प्रमाणं भवति, एतच्च सूर्यमासे प्रतिमासं चन्द्रमासस्य न्यूनत्वं सिद्धम् , एतच्च सूर्यस्य त्रिंशन्मासैः संघातीभूय एकश्चन्द्रमासोऽधिको निष्पद्यते तदेव दर्श्यते, एते एकषष्टि षिष्टिभागाः सूर्यस्य त्रिंशन्मासै गुण्यन्ते जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०) द्वाषष्टिभागाः, एषां मासदिनानयनथै द्वाषष्ट्या भागो हियते लब्धानि एकोनत्रिंशदिनानि स्थिताः शेषा द्वात्रिंशद्वाषष्टि भागाः। एतावत्परिमितएकश्चन्द्रमास स्त्रिंशता सूर्यमासैरधिकोलभ्यते, अयं भावः-सूर्यस्य त्रिंशन्मासाः चन्द्रस्य एकत्रिंशन्यासः परिपूर्यन्ते एष एवाधिको मासो भवतीति । एकस्मिन् युगे षष्टिः सूर्यमासा भवन्ति ततः पुनपि सूर्यसंवत्सरस्य त्रिंश-मासातिक्रमे द्वितीयोऽधिकमासो भवति । एवमेकस्मिन् युगे युगाड़े एकैकाधिकमाससंभवाद् द्वौ अधिकमासौ भवतः, तथा चोक्तम्
सट्ठीए अइयाए, हवइ हु अहिमासगो जुगद्धमि ।
बावीसे पव्वसए हवइ य बीओ युगद्धम्मि" ॥१॥ छाया-पष्टौ अतीतायां भवति खलु अधिकमासो युगाः ।
द्वाविंशति पर्वशते भवति च द्वितीयो युगार्धे ॥१॥ इति । अयं भावः-षष्टौ पर्वणाम् -अमावास्या पूर्णिमा रूपाणाम् पर्वणामित्यर्थः षष्टि संख्यायां 'अईयाए' अतीतायां व्यतिक्रान्तायां सत्याम् त्रिंशतिमासेषु पर्वणां षष्टि संभवाद तदने 'जुगद्धम्मि' युगार्धे 'अहिमासो हवई' अधिकमासो भवति सूर्यस्य त्रिंशन्मासरूपे युगार्धे चन्द्रस्य एकत्रिंशन्मासा इति भावः । एवं 'बावीसे पव्वसए' द्वाविंशत्यधिके पर्वशते द्वाविंशत्यधिकैकशततमे पर्वणि व्यतीते सति 'जुगद्धंमि' युगार्धे द्वितीये युगाघे युगान्ते इत्यर्थः पुनरपि 'बीओ हवइ' द्वितीयोऽधिमासो भवति, एकस्मिन् युगेऽधिकमासद्वयसंभवादिति सूर्यस्य षष्टि मासेषु चन्द्रस्य द्वाषष्टि मासाः परिपूर्णा भवन्तीति भावः, तेन युगमध्ये तृतीये संवत्सरेऽधिकमासः, ततः पञ्चमे, इति युगेऽभिविर्धितसंवत्सरौ द्वौ भवत इति ।
अथैकस्मिन् युगे सर्वसंख्यया किमन्ति पर्वाणि भवन्तीति प्रदयितुकामः प्रति संवसरस्य पर्वसंख्यामाह-'ता पढमस्स णं' इत्यादि ।
'ता' तावत् 'पढमस्स गं' प्रथमस्य खलु 'चंदसंवच्छरस्स' चान्द्रसंवत्सरस्य 'चउव्वीस पव्वा पण्णत्ता' चतुर्विशतिः पर्वाणि अमावास्या पूर्णिमारूपाणि प्रज्ञप्तानि चान्द्रसंवत्सरस्य द्वादशमासात्मकत्वात् , एकैकस्मिन् मासे च पर्वद्वयसद्भावात् ।१। 'दोच्चस्स गं'