SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिसूत्रे त्रसंज्या परिभावनीया । सर्वसंकलनया एकस्य युगस्य-अष्टादशशतानि त्रिंशदधिकानि अहोरात्राणिभवन्तीति । ___ अथ कथमधिकमाससंभवः येनाऽभिवर्द्धितसंवत्सर उपजायते ? एषोऽधिकमासश्च कियता कालेन संभवतीति प्रदर्श्यते-अत्र युगं चान्द्र-चान्द्रा-ऽभिवति–चान्द्रा-ऽभिवर्द्धितेति पञ्चसंवत्सरात्मकं भवति, सूर्यसंवत्सरापेक्षया च विचार्यमाणेऽस्मिन् युगे अन्यूनातिरिक्तानि पञ्चवर्षाणि भवन्ति । अथ सूर्यमासः सार्धत्रिंशदहोरात्रप्रमाणः (३०॥), चान्द्रमासश्च पूर्व प्रदर्शितो द्वात्रिंश द्वाषष्टिभागसहित एकोनत्रिंशदहोरात्रप्रमाणः (२९ ३) ततो गणितपरिपाट्या सूर्यसंवत्सर सम्बन्धित्रिशन्मासातिक्रमे एकश्चान्द्रमासोऽधिक आयाति । स च कथं लभ्यते इति ज्ञापनायात्र वृद्धसंप्रदायोक्त करण गाथा प्रोच्यते "चंदस्स जो विसेसो, आइच्चस्स य हविज्जमासस्स तीसइ गुणिओ संतो, हवइ अहिमासगो एक्को" ॥१॥ - छाया-चन्द्रस्य यो विश्लेषः, आदित्यस्य च भवेत् मासस्य । त्रिंशद्गुणितः सन् भवति खलु अधिकमास एकः ॥१॥ इति । अस्या गाथाया अर्थः प्रीते-'आइच्चस्स मासस्स' आदित्यस्य मासस्य मध्यात् 'चंदस्स, जो बिसेसो हविज्ज' मादित्यसंवत्सरसम्बन्धिनो मध्यात् चन्द्रस्य चन्द्रमासस्य विश्लेषः शोधनरूपो भवेत् स 'तीसई गुणिओ संतो' त्रिंशद्गुणितः सन् ‘एक्को अहिमासओ' एकोऽधिकमासो भवतीति गाथार्थः । एतद्गणितं यथा-सूर्यमासः सार्धत्रिंशद् दिनप्रमाणः (३०॥) चन्द्रमासश्च एकोनत्रिंशद् दिनानि, एकस्य च दिनस्य द्वात्रिंशच्च द्वाषष्टिभागाः (२९२२ ) इतिसूर्यमास दिनेभ्यः चन्द्रमासदिनानि द्वाषष्टिभागसहितानि शोध्यन्ते ततः स्थितं पश्चादेकं दिनमेकेन द्वाषष्टिभागेन न्यूनम्, एतच्च सूर्यमासात् चन्द्रमासस्य प्रतिमाससत्कं न्यूनत्वम् । तच्च दिनत्रिंशता गुण्यते जातानि त्रिंशदिनानि (३०) एकश्च द्वाषष्टिभागोऽपि त्रिंशता गुण्यते जाता एकस्य दिनस्य त्रिंशवाषष्टिभागाः (३०) एते त्रिंशद्वाषष्टिभागाः त्रिंशदिनेभ्यः शोध्यन्ते, स्थितानि शेषाणि एकोनत्रिंशदिनानि एकस्य च दिनस्य द्वात्रिंशद् द्वाषष्टिभागाः (२९२। कथमित्याह-त्रिशदिनेभ्य एक रूपं निष्कास्यते,-स्थितानि शेषाणि एकोनविंशदिनानि, निष्कासितस्य एकस्य द्वाषष्टि भागकरणार्थं तद् द्वाषष्टया गुण्यते जाता द्वाषष्टिः (६२) अस्माद् राशे स्त्रिंशत् शोध्यन्ते स्थिताः शेषा द्वात्रिंशद् द्वाषष्टिभागाः (३२) तत आगतो यथोक्त प्रमाणश्चान्द्रमासः (२९- इत्येवंरूपो भवति सूर्यसं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy