SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० संवत्सरस्वरूपनिरूपणम् ३७ अथैते पञ्च चान्द्रादि संवत्सराः पृथक् यथाक्रमं व्याख्यायन्ते, तत्र प्रथम, चान्द्रसंवत्स-'. रस्य व्याख्या क्रियते, तथाहि - अमावास्या पौर्णमासीनां द्वादश द्वादश परिवर्ता याबताकालेन परिसमाप्ता भवन्ति तावकालविशेषश्चान्द्रः संवत्सरो निष्यद्यते, उक्तञ्च "आमावासा पुण्णिमा-परियट्ठा जावएण कालेण बारस होति य तावं, संवच्चरो हवइ चंदो ॥१॥ "अमावास्या पूर्णिमा परिवर्तायावत्केन कालेन द्वादश द्वादश भवन्ति च तावान् (कालविशेषः) संवत्सरो भवतिचान्द्रः ॥१॥ इतिच्छाया । अमावास्या पूर्णिमा परिवर्तों यावता कालेन भवति सकाल विशेषश्चान्द्रमासः एकस्मिन् चान्द्रमासेऽमावास्या पूर्णिमयोरेकैकयोरेव सद्भावात् । तस्मिंश्च चान्द्रमासे कियन्ति रात्रिन्दिवानि भवन्ति ! इत्यत्राह-एकस्य चान्द्रमासस्य-एकोनत्रिंशदहोरात्राः, एकस्याहोरात्रस्य च द्वात्रिंशद् छाषष्टिभागाः (२९-३२) भवन्ति । एकस्मित् चान्द्रसंवत्सरे द्वादश मासा भवन्तीति द्वादशभिर्गु ण्यन्ते, जातानि चतुष्पञ्चाशदधिकानि त्रीणि शतानि रात्रिन्दिवानि, एकस्य रात्रिन्दिवस्य छादश: द्वाषष्टिभागाः (३५४३) एतत्परिमाणश्चान्द्रसंवत्सर आयाति । १ । एवं द्वितीयश्चान्द्रसंवत्सरोऽपि परिभावनीयः ।२। दर अथ तृतीयोऽभिवर्द्धितसंवत्सरो व्याख्यायते यस्मिन् संवत्सरेऽधिकमासो भवति सोऽभि- . वतिसंवत्सरः कथ्यते । अस्मिन् संवत्सरे त्रयोदश चान्द्रमासा भवन्ति । तथा चोक्तम्-.. "तेरस य चंदमासा, एसो अभिवडिओ ३ बोद्धव्वो" त्रयोदश च चान्द्रमासाः एषः । अभिवर्द्धितस्तु बोद्धव्यः, इतिच्छाया । अथ चैकचान्द्रमासाहोरात्रसंख्या त्रयोदशभिर्गुणनीया ., भविष्यति, सा च संख्या-एकोनत्रिंदशदहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागाः (२३) इतिपूर्व प्रदर्शितमेव, अस्य राशेस्त्रयोदशभिर्गुणने जातानि त्र्यशीत्यधिकानि त्रिशताहो रात्राणि, एकस्याहोरात्रस्य च चतुश्चत्वारिंशद् द्वाषष्टिभागाः (३८३१) । एतावदहोरात्रपरिमाणोऽभिवतिसंवत्सरो निप्पद्यते ३ । एवं चतुर्थपच्चमयोश्चान्द्राभिवर्द्धितयोरपि संवत्सरयोरहोरा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy