SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७२ चन्द्रप्राप्तिसूत्रे शब्देन कथ्यते, अयमाशयः-यत् यावता कालेन बृहस्पतिनामा महाग्रहो नक्षत्रैः सह योगमाश्रित्याभिजिदादीनि अष्टाविंशतिमपि नक्षत्राणि परिसमापयति ताव परिमितो द्वादशवर्षात्मको नक्षत्रसंवत्सरो भवतीति प्रथमः संवत्सरः ।१॥ सू० २॥ ___ अथ द्वितीयं युगसंवत्सरमाह-'ता जुगसंवच्छरेणं' इत्यादि । मूलम् ता जुगसंवत्सरेणं पंचविहे पण्णत्ते, तं जहा-चंदे १ चंदे २ अभिवढिए ३ चंदे ४ अभिवइढिए ५। ता पढमस्स णं चंदसंवच्छरस्स चउव्वीस पव्वा पण्णत्ता १॥ दोच्चस्स चंदसंवच्छरस्स चउवीसं पव्वा पण्णत्ता २। तच्चस्स णं अभिवइढिय संवच्छरस्स छन्वीसं पव्वा पण्णत्ता ।३। चउत्थस्स णं चंदसंवच्छरस्स चउवीसं पव्वा पण्णत्ता ४॥ पंचमस्स णं अभिवढियवच्छरस्स छब्बीसं पव्वा पण्णत्ता ५। एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुगे एगे चउवीसे पव्वसए भवतीति मक्खायं ॥सू० ३॥ छाया तावत् युगसंवत्सरः खलु पञ्चविधः, शप्तः तद्यथा-चान्द्रः १, चान्द्रः २, अभिवद्धितः३, चन्द्रः४ अभिवद्धितः५। तावत् प्रथमस्य खलु चान्द्रसंवत्सरस्य चतुर्विति पर्वाणि प्रज्ञप्तानि । द्वितीयस्य खलु चान्द्रसंवत्सरस्य चतुर्विंशतिः पाणि प्रज्ञप्तानि । तृतीयस्य खलु अभिवद्धित संवत्सरस्य षड्विंशतिः पर्वाणि प्रज्ञप्तानि ३॥ चतुर्थस्य खलु चान्द्रसंवत्सरस्य चतुर्विशतिः पर्वाणि प्रज्ञप्तानि४॥ पञ्चमस्य खलु अभिवद्धित संवत्सरस्य षड्विंशतिः पर्वाणि प्रज्ञप्तानि ५। एवमेव सपूर्वापरेण पञ्चसांवत्सरिके युगे चतुविश पर्वशतं (१२४) भवतीत्याख्यातम् ॥सू० ३॥ व्याख्या- 'ता जुगसंवच्छरेणं' इति, 'ता' तावत् 'जुगसंवच्छरेणं' युगसंवत्सरः खलु युगपूरकः संवत्सरः स खलु 'पंचविहे पण्णत्ते' पञ्चविधः प्रज्ञाः, 'तं जहा' तद्यथा-'चंदे १ चंदे २ अभिवइढिए ३ चंदे ४ अभिवढिए ५, चान्द्रः १ चान्द्रः२ अभिवर्द्धितः ३ चान्द्रः ४ . अभिवर्द्धितः ५' एतन्नामानः पञ्च संवत्सराः कथिता इति, तथा चोक्तम् --- चंदो चंदो अभिवइढिओ य चंदोऽभिवढिओ चेव । पंच सहियं जुगमिणं दिटुं तेलुक्कदंसीहिं ॥१॥ पढमबिइया उ चंदा अभिवढियं वियाणाहि । चंदे चेब चउत्थं, पंचममभिवड्ढियं जाण ॥२॥ छाया-चान्द्रः १ चान्द्रः २ अभिवर्द्धितश्च ३, चान्द्रः ४ अभिवद्धितश्चैव ५। पञ्चसहितं युगमिदं दृष्टं त्रैलोक्यदर्शिभिः ॥१॥ प्रथमद्वितीयौ तु चान्द्रौ, तृतीयमभिवद्धितं विजानीहि । चान्द्रं चैव चतुर्थं पञ्चममभिवद्धितं जानीहि ॥२॥ इति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy