________________
चन्द्रप्रशतिसूत्रे
मूलम् - ता कहं ते संवच्छरा आहिया ति वएज्जा । ता पंच संवच्छरा आहिया, ति वज्जा तं जहा - णक्खत्तसंवच्छरे १, जुगसंवच्छरे २, पमाणसंवच्छरे ३, लक्खणसंवच्छरे ४, सणिच्छरसंवच्छरे ।०१।
३७०
छाया तावत् कथं ते संवत्सरा आख्याता इति वदेत् तद्यथा - नक्षत्र संवत्सरः १, युगसंवत्सरः २, प्रमाणसंवत्सरः ३, लक्षणसंवत्सरः ४, शनैश्वरसंवत्सरः सू० १ ॥
व्याख्या — गौतमः पृच्छति - 'ता कहं ते संवच्छरा' इति तावत् हे भगवन् 'क' कथं कतिसंख्यका 'ते' त्वया 'संवच्छ रा' संवत्सराः 'आहिया' आख्याताः ? इति वएज्जा' इति वदेत् वदतु कथयतु | भगवानाह - 'ता' तावत् 'पंच संवच्छ रा' आहिया' पञ्च संवत्सरा 'अहिया' मया आख्याताः 'ति वपज्जा' इति वदेत् कथयेत् स्वशिष्येभ्यः । ' तं जहा ' तद्यथाते पञ्च संवत्सरा यथा - 'णक्खत्त संवच्छरे' नक्षत्र संवत्सरः तत्र यावताकालेन अष्टाविंशति नक्षत्रैः सह चन्द्रस्य योगसमाप्ति भवेत् यावत् कालेन चन्द्रोऽष्टाविंशतौ नक्षत्रेषु भोगं कृत्वा तेभ्यः पृथग् भवेत् तावत्परिमितः कालविशेषो नक्षत्रमासो भवति ते नक्षत्रमासा यावता कालेन द्वादश व्यतीता भवन्ति तावत्परिमितः कालविशेषो नक्षत्रसंवत्सरः कथ्यते, अथ च एको नक्षत्रमासो द्वादशभिर्गुणितो नक्षत्रसंवत्सरो भवति, उक्तञ्च --
"नक्खत्तं चंद जोगो बारस गुणिओ य नक्ख तो ॥"
छाया - नक्षत्रचन्द्रयोगः द्वादशगुणितश्च नाक्षत्र : (संवत्सरः) । इति । अत्र पुनरेकेन ऊनिकृतो नक्षत्र पर्याय योग एको नक्षत्रमासः - सप्तविंशति रहोरात्राः, एकस्याहोरात्रस्य एकविंशतिः सप्तषष्टि भागः (२७२१) एतावत्परिमितो भवति । एष एकस्य नक्षत्रमासस्याहोरात्रपरिमाणरूपो
६७
राशिर्यदा द्वादशभिर्गुण्यते तदा यस्तगुणनफलराशि र्भवेत् तत्परिमिताहोरात्रप्रमाणो नक्षत्रसंवत्सरो भवति, तच्च गुणनफलमेतावत्परिमितं भवति - सप्तत्रिंशत्यधिकानि त्रीणि अहोरात्रशतानि, एकस्याहोरात्रस्य च एकपञ्चाशत् सप्तषष्टिभागाः (३२७५१ ) इति कथमेतदवसीयते इति तद्गणितं
६७
प्रदर्श्यते – एकनक्षत्रमासाहोरात्र (२७२१) द्वादशभिर्गुणने प्रथमं सप्तवर्शिति र्द्वादशभिर्गुण्यते
६७
जातानि चतुर्विंशत्यधिकानि त्रीणि शतानि (३२४) तत उपरितनो राशिरे कविंशतिः (२१) एषो - ऽपि द्वादशभिर्गुण्यते जाते द्विपञ्चाशदधिके द्वेशते (२५२), ततोऽस्याऽहोरात्रानयनार्थं सप्तषष्टा भागो ह्रियते लब्धास्त्रयः, एते पूर्व स्थितेऽहोरत्रराशौ (३२४) प्रक्षिप्यन्ते जातानि सप्तविंशत्यधिका