SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. १९ लौकिक लोकत्तरमासनामानि ३६९ छाया तावत् कथ ते मासा आख्याताः ? इति वदेत् । तापत् एकैकस्य स्खलु संवत्सरस्य द्वादशमासाः प्रज्ञप्ताः। तेषां च खलु द्वादशानां द्विविधानि नामधेयानि प्रज्ञप्तानि, तद्यथा-लोकिकानि लोकोत्तराणि च । तत्र लौकिकानि नामानि-श्रावणः १, भाद्रपदः २ आश्विनः ३, यावत् आषाढः १२ । लोकोत्तराणि नामानि-अभिनन्दः १ सुप्रतिष्ठश्चर, विजयः ३ प्रीतिवर्धनः ४ । श्रेयांसश्च ५ शिवश्चापि ६, शिशिरः ७ अपि च हैमवान् ८॥१॥ नवमो वसन्तमासः ९ दशमः कुसुमसंभवः १०। एकादशो निदाघा ११ बनविरोधी व द्वादश: १२॥२॥, सू. १॥ दशमस्य प्राभूतस्य एकोनविंशतितम प्राभृतप्राभृतं समाप्तम ॥१०॥१९॥ व्याख्या-'ता कहंते मासा' इति । 'ता' तावत् 'कह' कथं केन प्रकारेण किंनामधेयाः 'से' वा 'मासा आहिया' मासा आख्याताः कथिता ? 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ? एवं गौतमेन पृष्ठे भगवानाह, ता' तावत् 'एगमेगस्स णं संवच्छरस्स' एकैकस्य खलु संवत्सरस्य 'बारसमासा पण्णत्ता' द्वादश द्वादश मासाः प्रज्ञप्ता 'तेसिं च णं वारसहंमासाणं' तेषां च खलु द्वादशानां मासानां 'दुविहा नामधेज्जा पण्णत्ता' द्विविधानि नामधेयानि प्रज्ञप्तानि लौकिकानि लोकोत्तराणि च 'तत्थ' तत्र लौकिकलोकोत्तराणां मध्ये 'लोइया नामा' लौकिकानि नामानि, तथाहि 'सावणे १, भद्दवए २, आसोए ३,' श्रावणः १, भाद्रपद २, आश्विनः ३, 'जाव आसाढे' यावत्-आषाढः १२, अत्र यावत्पदेन कार्तिकः ४, मार्गशीर्षः ५, पौषः ६, माघः ७, फाल्गुनः ८, चैत्रः ९, वैशाखः १०, ज्येष्ठः ११, एषां संग्रहः कर्त्तव्यः । द्वादश आषाढ इति सूत्रे कथितमेवेति । लोउत्तररिया० नामा लोकोत्तराणि नामानि यथा-अभिणंदे सुपइटे य' अभिनन्दः १, सुप्रतिष्ठ २ श्च, 'विजए पीइवद्धणे' विजयः ३ प्रीतिवर्धनः ४। 'सेज्जंसे य सिवे यावि' श्रेयांसश्च ५ शिवश्चापि 'च' तथा शिवनामापि च षष्ठो मासः ६ । शिशिरः ७, अपि च तथा हेमवं' हैमवान् ८॥१॥ 'नवमे वसंतमासे' नवमो वसंतमासः वसन्ताभिधो नवमो मासः ३, 'दसमे कुसुमसंभवे' दशमो मासः कुसुमसंभवः १० इति । एगारसमे णिदाहे' एकादशो मासः निदाघः ११ इति, 'वण विरोही य' वनविरोधी च 'बारसे' द्वादशः १२ ॥२॥ सू० १॥ ॥ इतिचन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिका व्याख्यायां दशमस्य प्राभृतस्य एकोनविंशति तमं प्राभृत प्राभृतं समाप्तम् ॥ १० । १९ ॥ ॥ दशमस्य त्राभृतस्य विंशतितमं प्राभृतप्राभृतम् ॥ व्याख्यातमेकोनविंशतितमं प्रामृतप्राभृतम्, तत्र लौकिकलोकोत्तरमासानां नामान्यभिहितानि । अथ विंशतितमं प्राभृतप्राभृतं प्रोच्यते, तत्र संवत्सराः वक्तव्या इति तद्विषयकं सूत्रमाह'ता कहं त संवच्छरा' इत्यादि । ४७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy