SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ २६८ चन्द्रप्राप्तिसूत्रे चारा 'आहिया' आख्याताः कथिताः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! । एवं गौतमेन पृष्टे भगवानाह-'ता' तावत् 'पंचसंवच्छरिएणं जुगे' पञ्चसांवत्सरिके पूर्वोक्त पञ्च संवत्सरात्मके खलु युगे 'अभीईनक्खत्ते' अभिजिन्नक्षत्रं 'पंचचारे' पञ्चचारान् यावत् 'सूरेण सद्धिं' सूरेण साधैं 'जोयं जोएई' योगं युनक्ति । कथमित्याह-अत्र योगमाश्रित्य सूर्यस्य समस्त नक्षत्रचक्रचारपरिसमाप्तिरेकेन सूर्यसंवत्सरेण जायते, ते च सूर्यसंवत्सरा एकस्मिन् युगे पञ्चैव भवन्ति ततः प्रत्येकस्मिन् संवत्सरे एकैकस्मिन् मासे एकैकनक्षत्रयोगसद्भावात् युगसम्बन्धिषु पञ्चसु संवत्सरेषु पञ्चवारानेव सूर्यस्याभिजिता सह योगसमुपपत्तिर्लभ्यते ततोऽभिजिन्नक्षत्रेण सह संयुक्तः सूर्य एकस्मिन् युगे पञ्च चारान्चरतीति सिध्यति । एवं रीत्या सर्वनक्षत्रैः सह सूर्ययोगएकस्मिन् युगे पञ्चचारान् यावत् भवतीति विज्ञेयम् । ततः यत्मिन् संवत्सरे येन नक्षत्रेण सह सूर्यस्य योगो भवति स पुनः सूर्यस्य योगस्तेन नक्षत्रेण सह द्वितीये संवत्सरे भविष्यति प्रत्येक संवत्सरे एकैकनक्षत्रेण सह सूर्ययोग सद्भावात् ‘एवं' एवम्-अनया रीत्या 'जाव' यावत् अत्र यावत्पदेन श्रवणनक्षत्रादारभ्य पूर्वाषाढानक्षत्रपर्यन्तानि षडविंशतिर्नक्षत्राणि एकस्मिन् युगे प्रत्येक पञ्च पञ्चचारान् सूर्येण सह योगं युञ्जन्ति । अथाष्टाविंशतितमनक्षत्रमाह-'उत्तरासाढानक्खते' उत्तराषाढानक्षत्रं 'पंचचारे' पञ्चचारान् 'सुरेण सद्धि' सूर्येण सार्धं 'जोयं जोएइ' योगं युनक्तीति । २८ ॥सू० १॥ चन्द्रप्रज्ञप्ति सूत्रे चन्द्रज्ञप्तिप्रकाशिका व्याख्यायां दशमस्य प्राभृतस्य अष्टादशं प्राभृतप्राभृतं समाप्तम् ॥१०॥१८॥ ॥ दशमस्य प्राभृत्तस्यैकोनविंशतितमं प्राभृतप्राभृतम् ॥ • गतमष्टादशं प्राभृतप्राभृतम् तत्र चन्द्रचारा आदित्यचाराश्च प्रदार्शिताः । अथैकोनविंशतितमं प्राभृतप्राभृतं प्रारभ्यते, अत्र संवत्सरस्य मासा वक्तव्या इति तद्विषयं सूत्रमाह-'ता कहते मासा' इत्यादि । मूलम् - ता कहं ते मासा आहिया ? तिवएज्जा । ता एगमेगस्स णं संवच्छरस बारस मासा पण्णत्ता । तेसिं च णं बारसण्हं मासाणं दुविहा नामधेज्जा पण्णत्ता, तं जहा लोइया लोउत्तरिया य। तत्थ लोइया नामा सावणे, भद्दवए २, आसोए ३, जाव आसाढे १२ । लोउत्तरिया णामा-"अभिणंदे १, सुपइट्टे २ य, विजए ३ पीइवद्धणे ४। सेज्जं से ५ य सिवइ यावइ, सिसिरे ७ वि य हेमवं ८ ॥१॥ नवमे वसंतमासे ९, दसमे कुसुम संभवे १० एगारसमे णिदाहे ११, बण विरोही य बारसे ॥२॥ सू० १ दसमस्स वाहुडस्स गूणवीसइमं पाहुडपाहुडं समत्तं ॥१० १९॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy