SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१० प्रा०प्रा १७ नक्षत्राणां भोजनानि ३६५ । व्याख्या-'ता कहं ते भोयणा' इति, 'ता' तावत् 'कह' केन प्रकारेण हे भगवान् ! 'ते' त्वया 'भोयणा' भोजनानि केषु केषु नक्षत्रेषु कानि कानि भोजनानि करणीयानीति 'आहिया' आख्यातानि कथितानि ? 'त्ति वएज्जा' इति वदेत् कथयतु हे भगवन् ! । एवं गौतमेन प्रश्ने कृते भगवानाह-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां स्खलु 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशतेर्नक्षत्राणां मध्ये 'कत्तियाहि' कृत्तिकासु कृत्तिका नक्षत्र दिने 'दहिणा' दध्ना सह भोजनं 'भोच्चा' भुक्त्वा गमने लोकाः 'कज्ज साहेति' कार्य साधयन्ति, कृत्तिकानक्षत्रदिने यदि पुमान् दधि भुक्त्वा कार्यार्थ गच्छति तदा तस्य तत्कार्य सिध्यतीति भावः ? एवं सर्वत्र भावना करणीया, सुगमत्वान्न व्याख्यायते । वस्तुत इदं सप्तदशं प्राभृतप्राभृतं न भगवता प्रतिपादितं किन्तु केनाऽप्यत्र प्रक्षिप्तमिति प्रतिभाति, नेयं भाषाशैली भगवतो लक्ष्यते, यतोऽत्र सूत्रे कुत्रचित् 'कत्तियाहिं रोहिणीहिं, अद्दाहिं' इत्यादि तृतीया बहुवचनं लभ्यते कुत्रचिच्च 'पुणव्वसुणा पुस्सेणं, अदाए' इत्यादि तृतीयैकवचनं लभ्यते । अन्यच्च भोज्यवस्तुविषये कुत्रचित्ततीया कुत्रचिद्वितीया च । यथा-"दहिणा भोच्चा, णवणीएण भोच्चा, खीरेण भोच्चा' इति तृतीया कुत्रचिच्च यत्र मांसविषयकथनं तत्र द्वितीया, यथा"वसभ मंस भोच्चा, मिगमंस भोच्चा, दीवगमंसं मोच्चा" इत्यादि, एवमव्यवस्थित जल्पनेन ज्ञायते नेदं भगवता प्ररूपितमिति । अन्यच्च कतिपयस्थलेषु स्थलचर जलचर-खेचर प्राणिनां मांसभक्षणं कार्यसिद्धौ कारणत्वेन प्रतिपादितं तत्तु नितान्तमसङ्गतमेव, यतः षट्कायप्रतिपालकस्य षट्कायरक्षणोपदेशतत्परस्य च भगवतो मुखान्नैष मांसभक्षणविधिर्भवितु मर्हति, शास्त्रेषु कुत्रापि नैतादृशी वाणी भगवतः समुपलभ्यतेऽतो निश्चीयते-नेदं भगवदुपदेशविपयकमिति । अस्तु अन्यदपि सयुक्तिकं कारणं श्रूयताम् शास्त्रेषु सर्वत्र नक्षत्राणां गणना-अभिजिन्नक्षत्रादारभ्यैव कृता युगस्याद्यदिवसेऽभिजित एव सद्भावात् । अत्रैव शास्त्रे पूर्व दशम प्राभृतस्य प्रथमे प्राभृतप्राभृते आदावेव सूत्रमिदम्___ता कहं ते जोगेति वत्थुस्स आवलियाणिवाए आहिएति वएज्जा, तत्स्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु ता सव्वेवि णक्खत्ता कत्तियादिया भरणी पज्जवसाणा एगे एवमाहंसु ॥१॥" इयमन्यतीथिकानां प्रथमा प्रतिपत्तिः एते कृत्तिकादीनि भरणी पर्यवसानानि नक्षत्राणि मन्यन्ते एवमन्यतोथिकानां पञ्च प्रतिपत्तयः सन्ति । तत्र द्वितीयाः-'मघादिकानि अश्लेषा पर्यवसानानि सर्वाणि नक्षत्राणि' इति २, तृतीयाः-धनिष्ठादीनि श्रवणपर्यवसानानि' इति ३ चतुर्थाः अश्विन्यादीनि रेवती पर्यवसानानि सर्वाणि नक्षत्राणि' इति कथयन्ति ।५। एता पञ्चापि प्रतिपत्तयो मिथ्या रूपा इति कथयित्वा, भगवान् स्वमतं प्रदर्शयति "वयं पुण एवं वयामो-सव्वेवि णं णक्खत्ता अभिई आइया उत्तरासादापज्जक- . साणा पण्णत्ता, तंजहा-अभिई सवणो जाव उत्तरासाढा ॥” इति ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy