SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे अस्य मलयगिरि सूरिणा कृता टीका यथा- "युगस्य चादिः प्रवर्त्तते श्रावणमास बहुलपक्षे प्रतिपदितिथौ बालवकरणे अभिन्नक्षत्र चन्द्रेण सह योगमुपागच्छति (सति) तथा चोक्तम् - ज्योतिष्करण्डके ३६६ सावण बहुलपडिव बालवकरणे अभिईनक्खते । सव्वत्थ पढमसमये जुगस्स आई वियाणाहि ॥ १॥ इति 'सव्त्रत्थ' सर्वत्रेति भरतैरवते महाविदेहे च । इत्थं सर्वेषामपि कालविशेषाणामादौ चन्द्र योगमधिकृत्याभिजिन्नक्षत्रस्य वर्त्तमानत्वादभिजिदादीनि नक्षत्राणि प्रज्ञप्तानि” इति टीका । अत्र कृत्तिकातो भरणी पर्यवसानानि नक्षत्राणि प्रथमान्यतीर्थिकैः – संमतानि सन्ति, तन्म तानुसारेणेदं – प्राभृतप्राभृतं दृश्यते । नेदं भगवतो मतमित्यतः स्पष्टं ज्ञायतेऽस्मिन् सप्तदशे प्राभृतप्रभृते भगवतः प्ररूपणा न भवितुमर्हतीत्यलं विस्तरेणेति ॥ सू० १ ॥ - ॥ इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिका व्याख्यायां दशमस्य प्राभृतस्य सप्तदशं प्राभृतप्राभृतं समाप्तम् ॥१०॥१७॥ दशमस्य प्राभृतस्याष्टादशं प्राभृतप्राभृतम् ॥ तदेवमुक्तं सप्तदशं प्राभृतप्राभृतम्, तत्र नक्षत्राणां भोजनानि प्रोक्तानि । अथाष्टादशं प्राभृतप्राभृतं प्रारभ्यते, अत्र चन्द्रादित्यचारा वक्तव्या इति तद्विषयकं सूत्रमाह- 'ता कहते चारा' इत्यादि, मूलम् -ता कहं ते चारा आहिया ति वएज्जा । तत्थ खलु इमे दुविहा चारा पण्णत्ता, तं जहा - आइच्च चारा य चंदचारा य । ता कहते चंदचारा आहिया ति वएज्जा । ता पंच संवच्छरिए णं जुगे अभिई णक्खत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएइ ?, सवणं णक्खते सत्तट्ठि चारे चंदेण सद्धि जोयं जोएइ २ एवं जाव उत्तरासादा णक्खते सत्तट्ठि चारे चंदेण सद्धिं जोयं जोएइ । ता कहं ते आइच्चचारा आहियाति वएज्जा, ता पंच संवच्छरिएणं जुगे अभिईणक्खते पंच चारे सूरेण सद्धिं जोयं जोएइ एवं जाव उत्तरा साढा णवखते पंच चारे सूरेण सद्धिं जोयं जोएइ || सू० १| दसमस्य पाहुडस्स अट्ठारसमं पाहुडपाहुडं समत्तं ॥ १०१८, छाया -- तावत् कथं ते चारा आख्यातः ? इति वदेत् । तावत् इमे द्विविधाः चाराः प्रशप्ताः, तद्यथा - आदित्यचाराश्च चन्द्रचाराश्च । तावत् कथं ते चन्द्रचारा आख्याताः ? इति वदेत् । तावत् पञ्च सावत्सरिके खलु युगे अभिजिन्नक्षत्रं सप्तषष्टि चारान् चन्द्रेण साध योग युनक्ति १ श्रवणः खलु नक्षत्रं सप्तषष्टि चारान् चन्द्रेण साधं योगं युनक्ति २ एवं ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy