________________
चन्द्रशतिप्रकाशिका टीका प्रा. १० प्रा०मा १५
दिवसतिथिरात्रितिथीनां नामानि ३५९
वक्ष्यति चामुमेवार्थे सूत्रकारोऽग्रेऽपि ' तत्थ णं जे से ध्रुवराहू' इत्याद्यालापकेन । ततो यावत्परिमितेन कालेन पञ्चदशो भागः षष्टि भागसत्कचतुर्भागात्मको हानिं वद्धिं वा प्राप्नोति स तावान् कालविशेषः कृष्णपक्षे शुक्लपक्षे वा तिथिरित्युच्यते । उक्तञ्च
"सोलसभागा काऊण उडुबई हायएत्थ पण्णरस । तत्यिमित्ते भागे पुणोवि विड्ढ जोहे ||१|| काले जेण हायर, सोळसभागो उसा तिही होई । तह चैव य बुड्ढीए, एवं तिहिणी समुप्पत्ती ॥२॥" छाया - षोडशभागान् कृत्वा उडुपतेः हीयन्तेऽत्र पञ्चदश । तावन्मात्रान् भागान् पुनरपि परिवर्धयेत् ज्योत्स्ने (शुक्लपक्षे ) ॥१॥ कालेन येन हीयते षोडशो भागस्तु सा तिथि र्भवति । तथैव च वृद्धा, एवं तिथेः समुत्पत्तिः || २ || इति ।
तिथि विषये वृद्ध सम्प्रदायो यथा- - अहोरात्रस्य द्वाषष्टिभागकरणे ये एक षष्टिभागास्ताव त्प्रमाणा तिथिः। अथाहोरात्रस्त्रिंशन्मुहूर्त्त प्रमाणो भवतीति प्रतीत एव किन्तु तिथिः कियन्मुहूर्त्तप्रमाणा भवतीत्यत्रोच्यते-तिथिश्च परिपूर्णा एकोनत्रिंशन्मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य द्वात्रिंशद् द्वा षष्टिभागाः.(२९३२) एतावत्प्रमाणा भवन्ति, उक्तञ्च–
६२
अगतीसं पुण्णा, उ मुहुत्ता सोमओ तिही होइ । भागा वि य बत्ती, बावट्ठिकारण छेएण" ॥१॥ छाया - एकोनत्रिंशत् पूर्णास्तु मुहूर्त्ताः सा मतातिथिर्भवति । भागा अपि च द्वात्रिंशत् द्वाषष्टिकृतेन छेदेन ॥ १॥ इति ।
एतत्कथं भवतीति चेदाह - इह अहोरात्रस्य द्वाषष्टिर्भागाः क्रियन्ते, ततस्तत्सत्का ये एक षष्टि भागा स्तावत्प्रमाणा तिथिरिति कथ्यते, तत्रैकषष्टि स्त्रिशता गुण्यते जातानि त्रिंशत्यधिकानि अष्टादशशतानि (१८३० ) । एते कल द्वाषष्टिभागीकृतस्याहोरात्रस्य मुहूर्तसत्का अंशाः जाताः, ततो मुहूर्त्तानयनार्थमेषां त्रिंशदधिकाष्टादशशतानां (१८३०) द्वाषष्ठ्या भागो हियते एकोनत्रिंशन्मुहूर्त्ताः, तदुपरि एकस्य मुहूर्तस्य च द्वात्रिंशद् द्वाषष्टिभागाः २९ ३२ एतावत्प्रमाणा तिथिर्भवति एतावतैर कालेन चन्द्रमण्डलगतः चतुर्भागात्मकः पूर्वप्रदर्शित
लब्धा
६२
प्रमाणः षोडशो भागो हानिमुपगच्छति वृद्धिं वा प्राप्नोति तत एतावानेव तिथेः परिमाणकालो भव