________________
चन्द्रप्रज्ञप्तिसूत्रे "तं रयय कुमुयसिरिसप्पभस्स चंदस्स राइसु रुयस्स । लोए तिहित्ति निययं, भण्णइ वुड्ढीए हाणीए ॥१॥" छाया-रजत कुमुदश्री सत्प्रभस्य चन्द्रस्य रात्रिसुरुचेः। लोके तिथि रिति नियतं, भण्यते (यस्य) वृद्धया हान्या ॥१॥ इति ।
चन्द्रस्य या वृद्धिर्हानिर्वा भवति सा न स्वरूपतः किन्तु राहुविमानकृता भवति, यदा राहु विमानेन चन्द्रविमानमात्रियते तदा चन्द्रस्य हानिरन्यथा वृद्धिर्भवतीति लोके कथ्यते-चन्द्रस्य हानिर्वृद्धिर्वा जातेति । राहुश्च द्विविधः पर्वराहुः ध्रुव (नित्य) राहुश्च । पर्वराहोर्विचारोऽत्रानुपयुक्तइत्यग्रे वक्ष्यते, अन्यत्र वा स्थले वर्त्तते इति तत्रतोऽवसेयः । अत्र प्रस्तुतप्रकरणं ध्रुवराहोरिति तस्य विषये विविच्यते-यो ध्रुवराहुस्तस्य विमानं कृष्णं स च चन्द्रमण्डलस्याधस्ताच्चतुरगुलान्तरेण नित्यं चारं चरति । अथ --चन्द्रमण्डलं बुद्ध्या चतुःषष्टि संख्यकै गैः परिकल्प्यते यदिदं चन्द्रमण्डलं चतुष्षष्टि भागात्मकमिति । तत एतेषां चतुः षष्टिभागानां कुलानां षोडशत्वात् षोडशभिर्भागो हियते लब्धाश्चत्त्वारश्चतुःषष्टिभागाः एते पञ्चदशसु दिवसेषु चन्द्रममण्डलस्य प्रत्येक दिवसस्य आवरणभागाः सन्ति । तेन तिथीनां पञ्चदशत्वात्पञ्च दशभिस्तिथिभिः षष्टि भागाश्चचन्द्रस्य राहुणा आवियन्ते शेषः स्थितश्चतुर्भागात्मक एको भागः स च चन्द्रमण्डलस्य सदाऽनावृताएव तिष्ठति, एष एव चन्द्रमण्डलस्य षोडशीकलेति प्रसिद्धम्, एषा षोडशीकला कदाऽपि नावियते । स च ध्रुवराहुः कृष्णपक्षस्य प्रतिपदि चन्द्रमण्डलस्याधश्चतुरङ्गुलान्तरेण चारं चरन् स्वकीयेन पञ्चदशेन भागेन यः षोडशीकला संज्ञाकश्चतुर्भागात्मकः सदाऽनावार्यः षोडशो भागस्तं मुक्वा शेषस्य षष्टि भागात्मकस्य चन्द्रमण्डलस्य तिथीनां पञ्चदशत्वात् पञ्चदश भागा भवन्ति तेषु ध्रुवराहुः स्वकोयेन पञ्चदशेन भागेन चतुर्भागात्मकमेकं पञ्चदर्श भागमावृणोति । एवं द्वितीयायां स्वकीयाभ्यां द्वाभ्यां पञ्चदशभागाभ्यां द्वौ पञ्चदशभागौ अष्ट भागात्मको चन्द्रमण्डलस्याऽऽवृणोति । तृतीयायां च स्वकीयैस्त्रिभिः पञ्चदश भागैस्त्रीन् पञ्चदशभागान् द्वादशभागात्मकान् चन्द्रमण्डलस्यावृणोति । एवमावरणवृद्धया यावद् अमावस्यायां स्वकीयैः पञ्चदशभिः पञ्चदशभागः पञ्चदशापि पञ्चदशभागान् चन्द्रमण्डलस्यावृणोति, तदा चन्द्रमण्डलस्य षष्टिरपि भागा अवृता भवन्ति प्रतिदिनावारक चतुर्भागेन पञ्चदशानां गुणने षष्टिभागानां लाभादिति । एवं शुक्लपक्षे एतावत्परिमितमेव भागं चन्द्रमण्डलस्य प्रकटी करोति ततः प्रतिपदायामेकं चतुर्भागात्मकं पञ्चदशं भागं प्रकटीकरोति । एवं द्वितीयायां द्वौ, तृतीयायां त्रीन् चतुर्भागात्मकान् पञ्चदशभागान् प्रकटी करोति । एवमावरणहान्या यावत् पञ्चदश्यां चतुर्भागात्मकान् पञ्चदशाऽपि पञ्चदशभागान् प्रकटीकरोति तदा चन्द्रमण्डलस्य षष्टिरपि भागा आनावृता भवन्ति ततः सर्वमपि चन्द्रमण्डलं सर्वात्मना परिपूर्णं लोके दृश्यते ।