SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३६० चन्द्र प्रज्ञप्तिसूत्रे तीति तदेवमेषोऽहोरात्रस्य तिथेश्च प्रतिविशेषो लब्धोऽत एव दिवसात् पृथक् तिथेः प्रश्नः कृतइति । एवं गौतमेन तिथिविषये प्रश्ने कृते सति भगवानाह - 'तत्थ खलु' इत्यादि । 'तत्थ खलु' तत्र तिथिविषयविचारे खलु 'इमा' वक्ष्यमाणाः 'तिहीओ' तिथिय: 'दुविहा' द्विविधाः 'पण्णत्ता' प्रज्ञप्ताः कथिताः,— तं जहा ' तद्यथा - ता इमा: ' दिवसतिहीओ राईतिहीओ य' दिवसतिथयः रात्रि तिथयश्च । दिवस तिथिरिति तिथे: पूर्वार्धभागः, रात्रितिथि रिति तिथेः पश्चार्धभागइति । पुनगैतमः पृच्छति - 'ता कहते दिवसतिहीओ' इत्यादि 'ता' तावत् 'क' कथं केन प्रकारेण 'ते' त्वया 'दिवसतिहीओ' दिवसतिथयः 'आहिया' आख्याता 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! एवं गौतमेन प्रश्ने कृते भगवानाह 'ता एगमेगस्स णं, तावत् ' एगमेगस्स णं' एकैकस्य खलु 'पक्खस्स' पक्षस्य 'पण्णरस' पञ्चदश पञ्चदश 'दिवस तिहीओ पण्णत्ताओ' दिवसतिथयः प्रज्ञप्ताः कथिताः । ' तं जहा ' तद्यथा-ता यथा 'गंदा' १, भद्दार जया ३ तुच्छा ४, पुण्णा ५, नन्दा १ भद्रा २ जया३ तुच्छा ४ पूर्णा५ । तत्र प्रथमा प्रतिपदा तिथिः नन्देति कथ्यते, एवं द्वितीयाभद्रा२, तृतीया जया, ३ चतुर्थी तुच्छा इयं लोके रिक्ता शब्देन प्रसिद्धा ४ पञ्चमी तिथि पूर्णा कथ्यते ५ । एषा पूर्णा 'पक्खस्स पंचमी' पक्षस्य पञ्चमी तिथि भवति५ एवं ' पुणरवि' पुनरपि अग्रेतनाः पञ्च तिथयः - नन्दा इत्यादि नन्दा ६ भद्रा ७ जया ८ तुच्छा ९ पूर्णा १० भवति एषा पूर्णा 'पक्खस्स दसमी' पक्षस्य दशमी तिथिर्भवति १० । एवमेव ' पुणरवि' पुनरपि 'नंदा' इत्यादि नन्दा ११ भद्रा १३ जया १२ तुच्छा १४ पूर्णा १५ भवति । एषा पूर्णा 'पक्खस्स पण्णरसी' पक्षस्य पञ्चदशी तिथि भवतीति १५ । ' एवं ' एवम् अनया रीत्या 'ता' ताः 'तिगुणा' त्रिगुणाः 'नन्दा, भद्रा, जया, तुच्छा, पूर्णा' एभिर्नामभिस्त्रिरावर्त्तन सम्पन्नाः पञ्चदश ‘तिहीओ' तिथयः 'सव्वेसिं दिवसाणं' परिपूर्णपक्षस्य दिवसानां भवन्तीति । पुनर्गौतमो रात्रितिथिविषये पृच्छति - 'ता कहं ते राई तिहीओ' इत्यादि । 'ता' तावत् 'क' कथं कया नाम परिपाट्या 'राई तिहीओ' रात्रितिथयः 'आहिया' आख्याताः कथिताः ? 'ति वएज्जा' इति इत्यपि वदेत् वदतु - कथयतु हे भगवन् ! एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता एगमेगस्स णं' इत्यादि । 'ता' तावत् ' एगमेगस्स णं पक्खस्स' एकैकस्य खलु पक्षस्य 'पण्णरस २' पञ्चदश पञ्चदश 'राईतिहीओ' रात्रि तिथयः पण्णत्ता' प्रज्ञप्ताः कथिताः, ‘तं जहा' तद्यथा-ता यथा - ' उग्गवई' उग्रवती प्रथमा प्रतिपत्सम्बन्धिनी रात्रितिथिः उग्रवती १ 'भोगवई' भोगवती द्वितीया सम्बन्धिनी रात्रितिथिः भोगवती कथ्यते २ । 'जसवई' यशोमती तृतीया तिथि सम्बन्धिनी रात्रितिथिः यशोमतीनाम्ना कथ्यते ३, 'सव्वसिद्धा' सर्वार्थसिद्धा चतुर्थी तिथि सम्बन्धिनी रात्रि तिथिः सर्वार्थसिद्धेति प्रसिद्धा ४ । 'सुहाणाम' शुभानाम्नी पञ्चमी तिथि सम्बन्धिनी रात्रि तिथिः शुभेति नाम्ना प्रोच्यते, एषा पक्षस्य पञ्चमी रात्रितिथिरिति ५ ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy