________________
२६
चन्द्रप्राप्तिसूत्रे दिश प्रतिगतः । तस्मिन् काले तस्मिन् समये श्रमगस्य भगवतो महावीरस्य ज्येष्ठः अन्तेवासी इन्द्रभतिर्नाम अनगारः गौतमगोत्रः सप्तोत्सेधः यावत् पर्यपासीनः एवमवादीत्तावत् कथं ते मुहूर्तानां वृद्धद्यपवृद्धी च आख्याते इति वदेत् , गौतम ! तावत् अष्टौ एकोनविंशतिः मुहूतशतानि, सप्तविंशतिश्च सप्तषष्टिभागाः मुहूर्तस्य आख्याता इति वदेत् ॥ सू० १॥
व्याख्या-'तेणं कालेणं' तस्मिन् काले भगवद्विहरणकाले 'तेणं समएणं' तस्मिन् समये हीयमानलक्षणे चतुर्थारकरूपे 'मिहिला णाम णयरी होत्था' मिथिला नाम नगर्यासीत् । सा तदा कीदृशी आसीत् ! इत्याह-'वण्णओ' वर्णकः वर्णनप्रकार,: तस्या नगर्या अत्र वर्णनं वक्तव्यम्, तच्च वर्णनम् औषपातिकसूत्रोक्तचम्पानगरीवत् 'ऋद्धस्थिमियसमिद्धा' इत्यादिनगरीवर्णनं सर्वमत्र वाच्यम्। 'तीसेणं' तस्याः खलु 'मिहिलाए णयरीए' मिथिलाया नगर्या बहिया' बहिः बहिर्भागे 'उत्तरपुरस्थिमे दिसीभाए' उत्तरपौरस्त्ये दिग्भागे उत्तरपूर्वयोरन्तराले ईशानकोणे इत्यर्थः 'एत्थ णं' अत्र खलु अत्रैव नान्यत्र 'मणिभद्दे णामं चेइए' मणिभद्रं नाम चैत्यं यक्षायतनम् 'होत्था' आसीत् , कीदृग् ? इत्याह-'चिराईए' चिरातीतम् अत्यन्तातीतकालिकम् अतिपुरातनम् 'वण्णओ' वर्णकः, अस्यापि वर्णनम् औपपातिकसूत्रोक्तपूर्णभद्रचैत्यवद्विज्ञेयम् । 'तीसे णं मिहिलाए णयरीए' तस्यां खलु मिथिलायां नगर्याम् 'जियसत्तू णामं राया' जितशत्रुर्नाम राजा, 'धारणी देवी' धारणी देवी-धारणीनाम्नी पट्टराज्ञी आसीत् । 'वण्णो ' वर्णकः वर्णनमत्र वक्तव्यमिति । राजराज्ञी वर्णनमत्रौपपातिकसूत्रोक्तो वाच्यः । 'तेणं कालेणं' तस्मिन् काले जितशत्रुशासनकाले 'तेणं समएणं' तस्मिन् समये तदुपलक्षितवर्तमानसमये 'सामी' स्वामी श्रीमहावीरः 'समोसढे' समवसृतः सुखसुखेन विहरन् प्रामानुग्रामं द्रवन् यथारूपमवग्रहमवगृह्य संयमेन तपसा आत्मानं भावयन् तस्मिन् मणिभद्रे चैत्ये समागतः । 'परिसा णिग्गया' परिषन्निर्गता, भगवदागमनं श्रुत्वा मिथिलानगरीतो जनसमूहो भगवद्वन्दनार्थ तद्देशनाश्रव. णार्थ च निर्गत-इत्यर्थः । 'धम्मो कहिओ' धर्मः कथितः अगारानगाररूपः श्रुतचारित्ररूपश्च धर्मों भगवता प्रतिपादितः, अत्रापि औपपातिकसूत्रोक्ता 'अस्थि लोए अस्थि अलोए'तथा 'जह जीवा वच्चंति' इत्यादिरूपा सर्वा धर्मदेशनाऽत्र वक्तव्या । 'परिसा पडिगया' परिषत् प्रतिगता, धर्मदेशनां श्रुत्वा परिषद् यस्या दिशाया प्रादुर्भूता तस्यामेव दिशायां प्रतिगता-गतवती । 'जाव राया जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए' यावत् राजा यामेव दिशमाश्रित्य प्रादुर्भूतः ता मेव दिशं प्रतिगतः, जितशत्रुराजाऽपि भगवतोऽन्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्टः प्रीतिमना हर्षवशविसर्पहृदयः श्रमणं भगवन्तं महावीरं प्रश्नानि पृष्ट्वा अर्थान् गृहीत्वा श्रमणं भगवन्तं महावीर वन्दित्वा नमस्यित्वा मणिभद्राच्चैत्यात् प्रतिनिष्क्रम्य यामेव दिशमाश्रित्य प्रादुर्भूतः समागतः तामेव