SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १-१ सू०१ सूर्यादिमासाऽहोरात्रवृतिहानिनि० १७ दिशं प्रतिगतः । तेण कालेणं' तस्मिन् काले परिषत्प्रतिगमनानन्तरं 'तेणं समएणं' तस्मिन् समये परिषद्गमनानन्तरं तदुपलक्षितसमये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेहे अंतेवासी' ज्येष्ठोऽन्तेवासी प्रधानशिष्यः, अनेन गौतमस्य प्रथमागमनं सकलसंघाधिपतित्वं च सूच्यते। 'इंदभूई णामं अणगारे'। इन्द्रभूतिर्नाम-इन्द्रभूतिनामकः अनगारः बाह्याभ्यन्तरपरिग्रहवर्जित', 'गोयमगोत्ते' गौतमगोत्र:-गोत्रेण गौतमः गौतमगोत्रोत्पन्न इत्यर्थः, किं विशिष्टः ? इत्याह- 'सत्तुस्सेहे' सप्तोत्सेधः सप्तहस्तोच्छ्रेययुक्तशरीरधारौ 'जाव' यावत्, अत्र याव त्पदेन 'समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे' इत्यारभ्य 'मुस्यसमाणे णमंसमाणे अभिमुहे विणएणं' इत्यादि संग्राह्यम्, तद्वयाख्यानं च श्रीभगवतीसूत्रस्य प्रथमशतकेऽस्मत्कृतायां प्रमेयचन्द्रिकाटीकायां विलोकनीयम् । 'पज्जुवासमाणे' पर्युपासीनः मनोवाकायरूपया त्रिविधया पर्युपासनया सेवां कुर्वन् ‘एवं वयासी' एवमवादीत्-एवम्-वक्ष्यमाणप्रकारेण अवादीत्-कथितवान् । किं कथितवान् ? इत्याह-'ता कहं ते' इत्यादि । 'ता कहं ते' तावत् कथं ते तावत् प्रथमम् सन्त्यप्यन्येऽस्यां चन्द्रप्रज्ञप्त्यां बहवो विषया प्रष्टव्यत्वेन, किन्तु आसतां ते, साम्प्रतं पूर्वं त्वेतावदेव पृच्छामि यत्-हे भगवन् ते-तव मते तव ज्ञानविषये कथं केन प्रकारेण 'मुहुत्ताणं' मुहूर्त्तानाम् नक्षत्रसूर्यचन्द्रऋतुमाससम्बन्धिनाम् अहोरात्रविषयाणां 'वुड्ढोवुइढी य' वृद्धयवृद्धी च चकारोऽत्र पृथक्पदापेक्षया, तेन वृद्धिरपवृद्धिश्चति ज्ञातव्यम् । वृद्धिः दिवसरात्रिगतमुहूर्तानां वर्धनम् , अपवृद्धिः-तेषामेव हानिश्च 'आहिएत्ति' आख्याते-कथिते इति 'वएज्जा' वदेत् एतद्विषयं यदि कोऽपि मां पृच्छेत् तदाऽहं किमुत्तरं ददामीति हे भगवन् ! कृपया भवान् घदतु कथयतु । एवमग्रेऽपि विज्ञेयम् । भगवानाह-हे गौतम ! 'ता' तावत् प्रथमम् यथा त्वया यत् प्रथमं पृष्टं तदेव तदुत्तरमाश्रित्य प्रथमं कथयामि, तथाहि-'अह एगूणवीसं मुहुत्तसवाई' अष्टौ एकोनविंशतिर्मुहूर्तशतानि, एकस्य नक्षत्रमासस्य एकोनविंशत्यधिकान्यष्टशतानि(८१९) मुहूर्तानाम्, तथा 'मुहुत्तस्स' मुहूर्तस्य एकस्य च मुहूर्तस्य 'सत्तावीसं च' सप्तविंशतिश्च 'सत्तसहिभागा' सप्तषष्टिभागाः, एकस्य मुहूर्तस्य यदि सप्तषष्टि गाः क्रियन्ते तेषु सप्तविंशतिभांगा गृह्यन्ते (८१९२७) एतावन्मुहूर्तपरिमितो नक्षत्रमासो भवतीति 'आहिए त्ति'आख्यातम् इति 'वएज्जा' वदेत् एवं पृच्छकस्य कथ्यतामिति । एतदेव स्पष्टयति-इह चन्द्र-चन्द्रा-ऽभिवर्द्धित-चन्द्राऽभिवद्धितरूपपञ्चसंवत्सरात्मके युगे सप्तषष्टिनक्षत्रमासा (६७) भवन्ति, अहोरात्ररूपाणि दिनानि च त्रिंशदधिकानि अष्टादशशतानि (१८३०) भवन्ति, एतेषां सप्तषष्टिसंख्यकनक्षत्रमासैर्भागे हृते लब्धानि सप्तविंशतिरहोरात्राणि (२७) शेषा तिष्ठत्येकविंशतिः । सा मुहूर्तानयनाथ त्रिंशता गुणने जातानि त्रिंशदधिकानि षट् शतानि ६३०। एतेषां सप्तषष्ट्या भागो ह्रियते, लब्धा नव९ मुहूर्ताः,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy