SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३४६ चन्द्रप्राप्तिसूत्रे निर्गता योजनस्य द्वाचत्वारिंशदेकषष्टिभागाः, ऐकस्य च एकषष्टिभागस्य सम्बन्धिनः पञ्चसप्त क्षिप्यन्ते ततो जाता योजन द्वयोपरि षट् चत्वारिंशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्को द्वौ सप्तभागौ (२-१६२) इति, ततो वस्तुत एवं ज्ञातव्यम्चतुर्थाच्चन्द्रमण्डलात् परतो द्वादश सूर्यमार्गाः सन्ति, तेषु द्वादशा त्सूर्यमार्गात् परतो द्वे योजने अतिक्रम्य सूर्यमण्डलं वर्त्तते, तच्च सूर्यमण्डलं पञ्चमाच्चन्द्रमण्डलादर्वाक् षट् चत्वारिंशतमेकष्टिभागान् , एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागो (१६२ यावत् अभ्यन्तरं प्रविष्टम् । शेष सूर्यमण्डलस्य एकषष्टिभागः, एकस्य च एकषष्टिभागस्य पञ्च सप्तभार प्रमाण पञ्चमचन्द्रमण्डलसम्मिश्रं वर्त्तते । तस्य पञ्चमस्य चन्द्रमण्डलस्य चतुष्पञ्चाशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य द्वौ सप्तभागो(१४२) इति सूर्य मण्डलाहि विनिर्गतं वर्तते, तदेवं पञ्च सर्वाभ्यन्तराणि चन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि भवन्ति । एवं चतुषु च चन्द्रमण्डलान्तरेषु प्रत्येकं द्वादश द्वादश सूर्यमार्गा भवन्तीति सिद्धम् । तदेवं पूर्व "दस चेव मंडलाई' इति गाथायामभ्यन्तराणि बाह्यानि च पञ्च पञ्चेति दशमण्डलानि रविशशिनोः सामान्यानि सन्तीति कथितम् , तेषु यानि पञ्च सर्वाभ्यन्तराणि मण्डलानि सूर्यमण्डलसंमिश्राणि भवन्ति तानि प्रदर्शितानि, अथ तत्रैव गाथायां “पत्तेया होति सेसाणि" इत्युक्तं, तत्र शेषाणि षष्ठादारभ्य दशमपर्यन्तानि पञ्च मण्डलानि प्रत्येकानीति चन्द्रस्यैव गम्यानि न तु कदाचिदपि सूर्यस्य इति सूर्यमण्डला संस्पृष्टानि सन्तीति तान्यत्र प्रदर्श्यन्ते पञ्चमाञ्चन्द्रमण्डलात् परतो भूयः षष्ठं चन्द्रमण्डलमधिकृत्यान्तरं पञ्चत्रिंशद् योजनानि, एकस्य च योजनस्य त्रिंशदेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सम्बन्धिन श्चत्वारः सप्तभागाः (३५ -) भवन्ति । तत्र च प्रथम मेकषष्टिभागकरणार्थ पञ्चत्रिंशत् एकषष्टया गुण्यन्ते जातानि षञ्चत्रिंशदधिकानि एकविंशतिशतानि (२१३५) । एषूपरितना ये त्रिंशदेकषष्टि भागास्ते प्रक्षिप्यन्ते जातानि पञ्चषष्टयधिकानि एकविंशतिशतानि (२१६५)। ततश्चैतेषु ये पञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलादहि निर्गताश्चतुष्पञ्चाशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कौ दो सप्तभागौ (१४२ ) इति ये साम्प्रतमेव पूर्वप्रदर्शितास्ते एकषष्टिभागाः (५४) ६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy