SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिकाशिका टीका प्रा. १० प्रा. प्रा. ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ३४७ प्रक्षिप्यन्ते जातानि एकोनविंशत्यधिकानि द्वाविंशतिशतानि (२२१९) । अथ सूर्यस्य विकम्पःदे योजने अष्ट चत्वारिंशच्चैकषष्ठिभागाः (२८) तत्रैक षष्ठिभागानयनार्थ द्वे योजने एकषष्टया गुण्येते जाता एकषष्टिभागा द्वाविंशत्यधिकमेकं शतम् (१२२), तत एषु ये उपरितना अष्टचत्वारिंशदेकषष्टिभागास्ते प्रक्षिप्यन्ते जातं सप्तत्यधिकमेकं शतम् (१७०)। अनेन एकोनविंशत्यधिक द्वाविंशतिशत(२२१९) रूपस्य पूर्वराशेर्भागो हियते, लब्धास्त्रयोदश (१३) शेषास्तिष्ठन्ति नव ९, एकस्य च एकषष्टिभागस्य सत्काः पट् सप्तभागाः(१३-६) तत इदमायातम्-पञ्चमाच्चन्द्रमण्डलात्परतस्त्रयोदश सूर्यमार्गाः एषु त्रयोदशस्य च सूर्यमार्गस्योपरिषष्ठाच्चन्द्रमण्डलादर्वाक् अन्तरं योजनस्य नव एक षष्टिभागाः एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागा (- ) भवन्ति, ततः परतः षष्ठं षट् पञ्चाशदेकषष्टिभागात्मकं चन्द्रमण्लमायाति । ततः परं सूर्यमण्डलादाकू अन्तरं षट्पञ्चाशदे कषष्टिभागाः, एकस्य च एकषष्टिभागस्य एकः सप्तभागः (१६) अस्ति, तदनन्तरं सूर्यमण्डलं वर्तते, तस्माच्च परतः चतुरुत्तरमेकं शतमेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सम्बन्धी एकः सप्तभागः (१०४१) एतत्संख्यया हीनं यथोक्तपरिमाणकं चन्द्रमण्डलान्तरं लभ्यते इति । तस्मात्सूर्य मण्डलात्परतोऽन्ये द्वादश सूर्यमार्गा लभ्यन्ते ततः सर्व संमेलनेन तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः सन्ति । तस्य च त्रयोदयस्यान्तिमस्य सूर्य मार्गस्योपरि सप्तमाच्चन्द्रमण्डलादर्वाक् अन्तरम् एकविंशतिरेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य त्रयः सप्तभागाः (-) भवन्ति, ततः परमग्रे सप्तमं चन्द्रमण्डलमस्ति । तस्माच्च सप्तमाच्चन्द्रमण्डलात्परतश्चतुश्चत्वारिंशता एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्कौश्चतुर्भिःसप्तभागैः ) सूर्यमण्डलं, ततो द्विनवतिसंख्यैरेकषष्टिभागैः, एकस्य एकषष्टिभागस्य च सत्कैश्चतुर्भिः सप्तभागः (१२) न्यून यथोक्तप्रमाणं चन्द्रमण्डलान्तरं ततः परमस्तीत्यन्येऽपि द्वादशसूर्यमार्गा लभ्यन्ते । ततस्तस्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदश सूर्यमार्गाः त्रयोदशस्य सूर्यमार्गस्य बहिरष्टमाच्चन्द्रमण्डलादर्वाक अन्तरं त्रयस्त्रिंशदेकषष्टिभागाः (२३), ततोऽष्टमं चन्द्रमण्डलं वर्त्तते । /७ ४४/४
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy