SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिकाशिका टीका प्रा. १० प्रा. प्रा. ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ३४१ णं भंते ! चंदमंडलस्स एस णं केवइए अबाहाए अंतरे पण्णत्ते ! गोयमा ! पणतीसंजोयणाइं तीसं च एगद्विभागा जोयणस्स एगंच एगसट्ठिभागं सत्तहा छिता चत्तारि य चुणिया भागा ऐसा चंदमंडलस्स अबाहाए अंतरे पण्णत्ते" छाया-सूरमण्डलस्य खलु भदन्त ! सूरमण्डलस्य एतत् खलु कियत्कम् अबाधया अन्तरं प्रज्ञप्तम् ! गौतम ! द्वे योजने सूरमण्डलस्य सूरमण्डलस्य अबाधया अन्तरं प्रज्ञप्तम् । तथा-चन्द्रमण्डलस्य खलु भदन्त ! चन्द्रमण्डलस्य एतत् खलु कियत्कं अबाधया अन्तरं प्रज्ञप्तम् गौतम ! पञ्चत्रिंशत् योजनानि, त्रिंशच्च एकषष्टिभागा योजनस्य, एकं च एकषष्टिभागं सप्तधा छित्वा चत्वारश्च चूर्णिका भागा शेषाः ३५-२० - चू ) तदेतत् चन्द्रमण्डलस्य अबाधया अंतरं प्रज्ञप्तम् ॥ एतत् सूर्यमण्डलस्य चन्द्रमण्डलस्य चान्तरं प्रोक्तं तत् स्वस्वमण्डलविष्कम्भपरिमाणेन युक्ते कृते सूर्यस्य-चन्द्रस्य च विष्कम्भपरिमाणमायाति । उक्तञ्च सूरविकंपो एक्को, समंडलाहोइ मंडलंतरिया । चंदविकंपो य तहा, समंडला मंडलंतरिया ॥२॥ अस्याः काचिदक्षरगमनिका क्रियते-'सूरविकंपो' इत्यादि, मंडलंतरिया' मण्डलान्तरिका मण्डलस्य मण्डलस्य च अन्तरं 'समंडला' समण्डला मण्डलेन सहिता, अत्र मण्डलशब्देन मण्डलविष्कम्भो गृह्यते, तेन समण्डलिका मण्डलविष्कम्भसहिता, पूर्वोक्तमन्तरं सूर्यमण्डलविष्कम्भयुक्त भवति तदेव 'एक्को सरविकंपो' एक सूर्यविकम्पो भवति सूर्यस्य विकम्पक्षेत्रपरिमाणं भवतीति भावः । 'तहा य' तथैव सूर्य विकम्पवदेव मण्डलान्तरं मण्डलविष्कम्भयुक्तं कुर्यात् तत् चन्द्रविकम्पक्षेत्रं भवतीति । तथाहि-एकं सूर्यमण्डलस्यान्तरं द्वे योजने, इति पूर्व प्रदर्शितम् । सूर्यमण्डलविष्कम्भश्च-अष्टचत्वारिंशदेकषष्टिभागाः (१) । ततो द्वयोर्मेलने जातमेकस्य सूर्यमण्डलस्य विकम्पपरिमाणम् द्वे योजने, एकस्य च योजनस्य अष्टचत्वारिंशद् एकषष्टिभागाः-२४-) एतत् सूर्यमण्डलस्य विकम्पपरिमाणम् । एवं चन्द्रमण्डलान्तरं पञ्चत्रिंशत् योजनानि, एकस्य च योजनस्य त्रिंशद् एक षष्टिभागाः, एकस्य चैकषष्टिभागस्य च चत्वारः सप्तभागः ये चर्णिकाभागाः कथ्यन्ते (३५२० - ) एतस्मिन् चन्द्रमण्डलान्तरे चन्द्रमण्डलविष्कम्भपरिमाणेन
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy