SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३४० अत्र सवर्णनार्थं - प्रथमं त्रिंशद् योजनशशिरेकषष्ठ्या चन्द्रप्रशतिसूत्रे षट् त्रिंशद् योजनानामे कषष्टिभागकरणार्थे षट् षण्णवत्यधिकानि एकविंशतिशतानि (२१९६) एषु पञ्चविंशतिरेकषष्टिभागाः क्षिप्यन्ते जातानि (२२२१) एष राशिः एकविंशत्यधिक द्वाविंशतिशतानि सप्तभागकरणर्थे सप्तभिर्गुण्यते जातानि पञ्चदशसहस्राणि पञ्चशतानि सप्तचत्वारिंशदधिकानि (१५५४७) एषु च चत्वारः सप्तभागाः प्रक्षिप्यन्ते, ततो जातानि पञ्चदशसहस्त्राणि एक पञ्चाशदधिकानि पञ्चशतानि (१५५५१) जाता एष सप्तभागराशिः ततश्च योजनानयनार्थमेकषष्टि लक्षण छेदराशिमपि सप्तभिर्गुण्यते, जातानि सप्तविंशत्यधिकाि चत्वारिशतानि (४२७) एषश्छेदराशि: तत उपरि निष्पादित सप्तभाग राशि : (१५५५१) चतुर्दशरूपेणान्त्यराशिना गुण्यते, जातानि -द्वे लक्षे चतुर्दशाविक सप्तशतोत्तराणि सप्तदशसहस्राणि च (२१७७१ ४) जात एषश्छेद्यराशिः अस्य छेदकराशिना सप्तविंशत्यधिक चतुःशत (४२७) रूपेण भागो हार्यः, ततो भागसरलार्थं छेद्यछेदकरारयोः सप्तभिरपवर्त्तना क्रियते द्वयोराश्योः सप्तभिर्भागो ह्रियते इत्यर्थः । ततः पूर्वं छेदराशेः (४२७) सप्तभिरपवर्त्तना करणाज्जाता एकषष्टि ६१ । ततश्छेद्यराशे (२१७-७१४) सप्तभिरपवर्त्तना करणाज्जात एष राशिः द्वयधिकशतोत्तराणि एकत्रिंशत्सहस्राणि (३११०२) । अस्यापवर्त्तनासंपन्नेन एकषष्टिरूपेण छेदराशिना भागो हियने, लब्धानि नवोत्तराणि पञ्चशतयोजनानि, शेषा एकस्य च योजनस्य त्रिपञ्चाशदेकषष्टिभागाः (५०९1 - प्राप्त एतावती चन्द्रमसो विकम्पक्षेत्रकाष्ठा । अथवाऽपवर्त्तनाया अकरणे एषा रीति : ' ५३ ६१ मध्यराशिगत तथाहि छेद्यराशेः (२१७७१४) छेदराशिना सप्तविंशत्यधिक चतुःशत (४२७) रूपेण भागो, हृते लभ्यन्ते नवोत्तराणि पञ्चशतानि (५०९), स्थितानि शेषाणि एक सप्तत्यधिकानि त्रीणि शतानि (३७१) एनं राशिमेकषष्टिभागानयनार्थमेकषष्ट्या गुणयित्वा पुनः सप्तविंशत्यधिकचतुःशत(४२७) रूपेण छेदराशिना भागो हरणीयः तेन लब्धाः त्रिपञ्चाशद एक षष्टिभागाः ततः समा ५३ गतं पूर्वोक्तं योजनप्रमाणं ५०९. ) चन्द्रमसो विकम्पक्षेत्रकाष्ठाया इति । '६ १ अथ द्वयोर्द्वयोः सूर्यमण्डलयो द्वयोश्च चन्द्रमण्डलयोः परस्परमन्तरं प्रदर्श्यते, तथाहि - एक स्य सूर्यमण्डलस्य द्वितीयस्य सूर्यमण्डलस्य च परस्परमन्तरं द्वे द्वे योजने भवतः । एवं एकस्य चन्द्रमण्डलस्य द्वितीयस्य चन्द्रमण्डलस्य च परस्परमन्तरं पञ्चत्रिंशद् योजनानि, एकस्य च योजनस्य त्रिंशद् एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः, एतत्परिमितं भवति उक्तञ्च जम्बूद्वीपप्रज्ञप्तौ "सूरमंडलस्स णं भंते सूरमंडलस्स एस णं केवइए अवाहाए अंतरे पण्णत्ते ! गोयमा दो जोयणाई सूरमंडळस्स अबाहाए अंतरे पण्णत्ते" तथा - चंदमंडलस्स
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy