SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४२ चन्द्रप्राप्तिस्त्रे सहिते कृते एकश्चन्द्रविकम्पो भवतीति । अथ विकम्पक्षेत्रज्ञानार्थमुक्तञ्च सगमंडलेहि लद्धं सगकट्ठाओ हवंति सविकंपा । जे सगविक्खंभजुया हवंति सगमंडलंतरिया ॥१॥" संक्षेपतो व्याख्या-'जे' ये चन्द्रस्य सूर्यस्य वा विकम्पाः, कीदृशास्ते ? 'सगविक्खंभजुया' स्वकविष्कम्भयुताः ‘सगमंडलंतरिया' स्वकमण्डलान्तरिकाः, स्व स्व मण्डलविष्कभपरिमाणसहितानि स्व स्व मण्डलान्तराणि भवन्ति तानि तत्प्रमाणः 'सगकट्ठाओ' स्वककाष्ठायाः स्व स्व विकम्पयोग्यक्षेत्रपरिमाणस्य 'सगमंडलेहि' स्वकमण्डलैः स्व स्व मण्डलसंख्या भागे हृते 'लद्धं' यत् लब्धं या संख्या लभ्यते तत्प्रमाणाः 'सविकंपा' स्व स्व विकम्पाः स्व स्व विकम्पक्षेत्रपरिमाणानि 'हवंति' भवन्ति ॥१॥ तदेव दर्श्यते-सूर्यस्य विकम्पक्षेत्रकाष्ठा दशोत्तरपञ्चशतयोजनानि (५१०) एषा मेकषष्टिभागाः करणीया अत एष राशि रेकषष्टया गुण्यते जातानि दशोत्तरशताधिकानि एकत्रिंशत्सहस्राणि (३१११०) एष भाज्यराशिजर्जातः अथ भाजकराशिः क्रियते विकम्पक्षेत्रे सूर्यमण्डलानि च त्र्यशोत्यधिकमेकं शतं (१८३) । एतदप्येकषष्टया गुण्यते जातानि त्रिषष्ठयधिकशतोत्तराणि एकादश सहस्राणि (१११६३), एष भाजकगशिर्जातस्ततोऽनेन भाजकराशिना पूर्वस्य भाज्यराशेः (३१११०) भागो हियते लब्धे द्वे योजने (२), स्थितानि शेषानि चतुरशीत्य धिकानि सप्ताशीतिशतानि (८७८४) अस्य न्यूनत्त्वाद्भागो न हियतेऽत एक षष्टिभागा आनेतव्या अत एकषष्टया गुणनात् पूर्व यो भाजकराशिः त्र्यशोत्यधिकशत १८३ रूपस्तेन भागो हरणीयः हते च भागो लब्धो अष्टचत्वारिंशदेकषष्टिभागाः ४८ परिपूर्णाः ततो द्वे योजने, एकस्य च योजनस्य अष्टचत्वारिंशदेकषष्टिभागा (२९-८) एतद्-एकैकस्य सूर्यस्य एकैकाहोरात्रमाश्रिन्य विकम्पक्षेत्रमापातमिति । तदेवमुक्तमे कैकसूर्यस्य एकैकाहोरात्रमाश्रित्य विकम्पक्षेत्रम् । अथ चन्द्रस्य तदेव विकम्पक्षेत्रं प्रदर्श्यते-तत्र चन्द्रस्य विकम्पक्षेत्रकाष्ठा नवोत्तरपश्चशतयोजनानि त्रिपञ्चाशदेकषष्टिभागाः (५०९५२) एतत् पूर्व प्रदर्शितमेव । अथ एकषष्टिगागानयनार्थ पूर्व योजनानि नवोत्तर पञ्चशतानि (५०९) एकषष्टया गुण्यन्ते जातानि एकोनपञ्चाशदधिकानि एकत्रिंशत्सहस्नयोजनानि (३१०४९) तत एषु ये उपरितनाः त्रिपञ्चाशदेकषष्टिभागाः सन्ति ते प्रक्षिप्यन्ते जातानि द्वयुत्तरशताधिकानि एकत्रिंशत्सहस्रयोजनानि (३११०२), चन्द्रस्य विकम्पक्षेत्रे चतुर्दश मण्डलानि १४ सन्ति तत एकषष्टिगुणित विकम्पक्षेत्रकाष्ठाराशेर्भागहरणार्थे मण्डलान्यपि एकषष्टया गुण्यन्ते ततश्चतुर्दश एकषष्टया गुण्यन्ते जातानि चतुष्पञ्चाशदधिकानि अष्टशतानि (९५४) अनेन पूर्वराशे (३११०२) र्भागो हियते लब्धानि षट् त्रिंशद् योजनानि (३६), तिष्ठन्ति शेषाणि अष्टपञ्चाशदधिकाणि त्रीणि शतानि (३५८) तत एकषष्टया गुणनात् पूर्व यो मण्डलसंख्यारूपो
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy