SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३३२ चन्द्रप्रज्ञप्तिसूत्रे ते द्वे आषाढे, ते च सर्व बाह्ये मण्डले योगम् अयुञ्जतां वा, युङ्क्तो वा, योक्ष्यतो वा। तत्र यत्तत् नक्षत्रं यत् खलु सदा चन्द्रस्य प्रमद योगं युनक्ति सा खलु एका ज्येष्ठा। सूत्र०१॥ व्याख्या-'ता कहते इति । 'ता' तावत् 'कह' कथं केन प्रकारेण 'ते' त्वया 'चंदमग्गा' चन्द्रमार्गाः नक्षत्राणां दक्षिणत उत्तरतः प्रमर्दतः, अथवा सूर्यनक्षत्रविरहिततया अविरहितया चन्द्रस्य मार्गा मण्डत्वगत्या परिभ्रमणरूपा मण्डलरूपा वा मार्गाः 'अहिया' आख्याताः कथिताः ? 'तिबएज्जा' इति वदेत् वदतु कथयतु हे भगवन् । एवं गौतमेन प्रश्ने कृते भगवानाह-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां ज्योतिः शास्त्रप्रसिद्धानां 'अट्ठावीसाए' णक्खत्ताणं' अष्टाविंशतेनक्षत्राणां मध्ये 'अत्थि' सन्ति 'अत्थि' इति एकवचन बहुवचनवाचकमव्ययपदं, तेन सन्तीत्यर्थः ‘णक्खत्ता नक्षत्राणि कानिचित्, 'जे णं' यानि खलु 'सया' सदा निरन्तरं 'चंदस्स चन्द्रस्य 'दाहिणेणं' दक्षिणे दक्षिणभागे दक्षिणस्यां दिशि स्थितानि 'जोयं जोएंति' योगं युञ्जन्ति चन्द्रेण सह योगं कुर्वन्तीत्यर्थः ? तथा 'अत्थि' सन्ति कानिचित् 'णक्खत्ता' नक्षत्राणि 'जेणं' यानि खलु 'सया' सदा 'चंदस्स' चंद्रस्य 'उत्तरेण' उत्तरे उत्तरस्यां दिशि स्थितानि 'जोयं जोएंति' योग युञ्जन्ति २ । तथा 'अस्थि' सन्ति कानिचित् ‘णक्खत्ता' नक्षत्राणि 'जे णं' यानि खलु 'सया' सदा 'चंदस्स' चंद्रस्य 'दाहिणेण वि' दक्षिणेऽपि 'उत्तरेण बि' उत्तरेऽपि 'पमईपि' प्रमर्दमपि प्रमर्दरूपमपि मध्यमार्गेण गमनरूपमपि 'जोयं जोएंति योग युञ्जन्ति ३ । तथा-'अत्थि' सन्ति कानिचित् 'णक्खत्ता नक्षत्राणि 'जे णं' यानि खलु 'सया' सदा चंदस्स चंद्रस्य दाहिणेणं 'पमईपि' दक्षिणे प्रमर्दमपि प्रमर्दरूपमपि 'जोय जोएंति' योग युञ्जन्ति ॥४॥ तथा 'अस्थि णक्खत्ता' सन्ति कानिचित् नक्षत्राणि 'जे णं' यानि खलु 'चंदस्स' चंद्रस्य 'सया' सदा 'पमई' प्रमर्दरूपं 'जोयं जोएंति' योगं युञ्जन्ति ॥५। एवं भगवता सामान्यतो नक्षत्राणां पञ्च योगप्रकाराः प्रदर्शिताः अथ भगवन् गौतमः कानि कानि नक्षत्राणि चन्द्रस्य दक्षिगादिक्रमेण योगं युञ्जतीति भिन्नतया स्पष्टावबोधार्थ पुनः पृच्छति-'ता' 'एएसिगं' इत्यादि 'ता' तावत् 'एएसिणं अट्ठावीसाए णक्खत्ताणं' एतेषाम् अष्टाविंशतेनक्षत्राणां मध्ये 'कयरे 'णक्खत्ता' कतमानि किंनामानि कति नक्षत्राणि सन्ति 'जेणं' यानि खलु 'सया' सदा चंदस्स दाहिणेणं जोयं जोएंति' चन्द्रस्य दक्षिणे स्थितानि योगं युञ्जन्ति ? ॥१॥ 'तहेव' तथैव यथा पूर्वप्रकरणे नक्षत्रयोगप्रकाराः कथितास्तथैवात्रापि वक्तव्याः स्पष्टार्थत्वात्पुनर्ने विविच्यन्ते । कियत्पर्यन्तं ते वक्तव्याः तत्राह-'जाव' इत्यादि 'जाव' यावत् पञ्चमं प्रकारम् तदेवाह-'कयर' इत्यादि 'कयरे' कतमानि किनामानि कति संख्यकानि च 'णखत्ता' नक्षत्राणि सन्ति 'जे णं' यानि खलु नक्षत्राणि 'सया' सदा 'चंदस्स' चन्द्रस्य ‘पमदं' प्रर्मदरूपं 'जोय' जोएंति योगं युञ्जन्ति ।५।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy