SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिसूत्रे वर्णनमस्ति ११, 'देवाणं अज्झयणा' देवानामध्ययनानि, द्वादशे प्राभृतप्राभृते देवानां नक्षत्राधिष्ठ'यकदेवानाम् अध्ययनानि - अधीयन्ते ज्ञायन्ते एभिरिति व्युत्पस्या अध्ययनानि अभिधेयानि नामानि वर्णनीयत्वेन सन्ति १२, मुहुत्ताणं नामया इय' मुहूर्त्तानां नामकानीति च त्रयोदशे प्राभृतप्राभृते एकाहोरात्रसम्बन्धिनां त्रिंशन्मुहूर्त्तानां किं किं नामेति वर्णनम् १३ || १७ || 'दिवसा राई वृत्ता य' दिवसा रात्रयश्च उक्ताश्च चतुर्दशे प्राभृतप्राभृते एकस्य पक्षस्य दिवसानां रात्रीणां च प्रकरणात् नामानि उक्तानीति १४, 'तिही' तिथयः, पञ्चदशे प्राभृतप्राभृते 'तिहि' - इति पञ्चदशतिथीनां नामान्युक्तानि १५, 'गोत्ता' गोत्राणि, षोडशे प्राभृतप्राभृते 'गोत्ता' इति - अष्टाविंशतिनक्षत्राणां गोत्राणि प्रोक्तानि १६, ' भोयणाणि य' भोजनानि च सप्तदशे प्राभृतप्राभृते 'भोयणाणि' इति - अष्टाविंशतिनक्षत्राणां भोजनान्युक्तानि यथा - अमुकस्मिन् नक्षत्रे अमुक वस्तु भुक्त्वा गमनं शुभाय भवतीति १७, 'आइच्चचार' आदित्यचारः अष्टादशे प्राभृतप्राभृते आदित्यस्य सूर्यस्य, उपलक्षणात् चन्द्रस्य च चारः - चरणं संचरणलक्षणं कथितम् १८, 'मासा य' मासाश्च - एकोनविंशतितमे प्राभृतप्राभृते एकस्य संवत्सरस्य कति मासाः तेषां च कानि लौकिकनामानि कानि च लोकोत्तरनामानीति कथनम् १९, पंच संवच्छरा इय' पञ्च संवत्सरा इति । पञ्च संवत्सरा इति पञ्चेति पञ्चसंख्यकाः - नक्षत्र - युग - प्रमाण - लक्षण - शनैश्चरसंज्ञकाः संवत्सराः, तेषां वक्तव्यताऽत्र विंशतितमे प्राभृतप्राभृते वर्त्तते २० ॥ १८॥ ' जोइ - सस्स य दाराई, ज्योतिषश्च द्वाराणि - एकविंशतितमे प्राभृतप्राभृते- ज्योतिषः - नक्षत्रचक्रस्य द्वाराणि वाच्यानि यथा - अष्टाविंशतिनक्षत्राणि पूर्वपश्चिमादिप्रकारेण किंकिंद्वाराणि - कस्य नक्षत्रस्य किं द्वारमिति वर्णनम्, अत्र पश्च प्रतिपत्तयः सन्ति २१, 'नखत्तविसए इय' नक्षत्रविषय इति - द्वाविं शतितमे प्राभृतप्राभृते नक्षत्राणाम् उपलक्षणात् चन्द्रसूर्ययोगादीनां च - विषयः - निर्णयोऽत्र वक्तव्यत्वेन वर्त्तते २२ । 'दसमे पाहुडे' दशमे मूलप्राभृते 'एए' एते पूर्वप्रदर्शिताः 'बावीसं' द्वाविंशतिः द्वाविं शतिसंख्यकाः ‘पाहुडपाहुडा' प्राभृतप्राभृतानि सन्तीति । इदमुक्तं भवति - प्रथमप्राभृतादारभ्य दशमप्राभृतपर्यन्तम् (२९-१४-१२-३२-२०- २५-२०-३-१२६-१०) एकनवत्यधिकशतद्वय (२९१) परिमिताः प्रतिपत्तयः सन्ति । तदग्रे एकादशप्राभृतादारभ्य षोडशप्राभृतपर्यन्तं प्रतिपत्तयो न सन्ति । पुनः सप्तदशाद् विंशतिपर्यन्तं चतुर्षु प्राभृतेषु क्रमशः पञ्चविंशति-पञ्चविंशतिद्वादशचतुःसंख्यकप्रतिपतिसंमेलनेन सर्वाः षट्षष्टिः (६६) प्रतिपत्तयः सन्ति । एवं सर्वेषु विंशतिसंख्यकेषु प्राभृतेषु सर्वाः प्रतिपत्तयो मिलित्वा सप्तपञ्चादशदधिकशतत्रय (३५७) संख्यका भवन्तीति कोष्टके प्रदर्शितम् अत्र तृतीयमूलप्राभृतादारभ्य नवममूलप्राभृतपर्यन्तं, तथा एकादशादारभ्य विंशतितममूलप्राभृतपर्यन्तं च प्राभृतप्राभृतानि न सन्तीति ॥१९॥ १४
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy